________________
२९९
तरङ्ग १० / कथा २५७ पतितः कर्मरेखमादाय वधाय सायं चाण्डालानां ददौ । बालहत्या नाऽस्माकमुचितेति ध्यात्वा तेऽपि तत्स्थाने मृतकं कर्मरेखसदृशं बालं शूलायां निधाय तं मुमुचिरे । ज्ञातभूपाभिप्रायः सोऽपि सायं शृगालनाशमनश्यत् । इतश्च श्रीपुरे पुरे श्रीदत्तः श्रेष्ठी, अपुत्रस्य तस्य चैका श्रीमतीसंज्ञा सुता, तं श्रेष्ठिनं निशि तद्गोत्रदेवी स्वप्नान्तरिति ब्रवीति स्म, प्रभाते ग्रामाद्बहिरुत्तरस्यां दिशि वर्त्मनि सुप्तस्य यस्य बालस्य पार्श्वे तव कृष्णा गौस्तिष्ठति, तस्मै गृह श्रीयुता श्रीमती देयेति । अथ स कर्मरेखोऽपि सर्वस्यामपि निशि चलनान्निकामं श्रान्तः पुरासन्नमागत्य शेते स्म। श्रीदत्तेनापि गोत्रदेवीवचनेन तत्तथैव वीक्ष्य स्वगृहमानीय स स्वसुतां परिणायितः, वितीर्णा च करमोचनाऽवसरे सर्वापि गृहश्रीः । तत्र च तेनापि कर्मरेखेण रत्नचन्द्र इति स्वं नाम प्रकटितम् ।
एकदा स श्रीदत्ताज्ञया यानपात्रेणाऽब्धौ जगाम । तत्र चोपार्जितभूरिवित्तो वर्त्मनि समागच्छन् भग्ने प्रवहणेऽम्भोनिधौ निपतितो गलितश्च मीनेन महता । तटे पतितस्य तस्य मीनस्योदरं विदार्य धीवरैर्गृहीत्वा स भृगुपुरपतेः प्राभृतीचक्रे । तेनाप्यपुत्रेण राज्ञा पुत्रत्वेन स रक्षितः परिणायितश्च कुण्डिनपुरस्वामिनः कनकश्रियं सुताम् । रम्भया जम्भारातिरिव तया समं सुखमनुभवन् स कालं गमयति स्म । इतश्च रिपुमर्दनेन तेन राज्ञा भाविन्याः स्वसुतायाः स्वयंवरमण्डपमहोत्सवे बहवो राजानो राजपुत्रा मन्त्रिणो मन्त्रिपुत्राः श्रेष्ठिनः श्रेष्ठिपुत्राः सार्थवाहाः सार्थवाहपुत्राश्च समाहूताः । तदा च भृगुपुरस्वामिनः सूनू रत्नचन्द्रोऽपि चतुरङ्गिणीसेनया परिवृतः पुरन्दर इव सर्वश्रीसुन्दरस्तं स्वयंवरमण्डपमलञ्चकार । क्रमेण सकलराजमण्डलमतिक्रम्य रोहिण्या शशीव तया भाविन्या स एव वृतः, रिपुमर्दनराजेनापि कनककरितुरगादिकं दत्त्वा विसृष्टः स तां भाविनीं भामिनीमादाय स्वपुरमाययौ । रतिप्रीतिभ्यां मन्मथस्येव ताभ्यां कनक श्रीभाविनीभ्यां विलसतस्तस्य सुखेन कालो याति स्म । अथैकस्मिन्नहनि सुवर्णस्थाले स्वर्भोज्यमिव रम्यमन्नं भुञ्जानस्याऽस्य वातूलपूलेन प्रेरितान् रेणूनन्नमध्ये पततो विलोक्य तालवृन्तपाणिः पुरःस्थिता भाविनी तद्भोजनं स्वेन नवीनपट्टकूलाऽञ्चलेन सद्यः पिधत्ते स्म ।
इति निरीक्ष्य रत्नचन्द्रो दध्यौ, एकः सोऽयमवसरो यत्राऽहमनया शूलायामारोपायितः एकश्चाऽयमवसरो यत्रैषेति वेत्ति मा प्राणपतेरस्य शरीरेऽपि पांशुस्पर्शो भूयादिति विस्मयं मन्यमानः स इषत्स्मितं चकार । तदा निपुणा सा भाविनी चकिता चिन्तयति स्म, यत्स्मितं तु मादृशां मृगीदृशां घटते, न त्वेतादृशां पुंसां, किञ्च कारणं विना नैतादृशाः सन्तः पुमांसो हास्यं सृजन्तीति ध्यात्वा सा तत्स्मितकारणं तमपृच्छत् । कान्ताकठोरतरकदाग्रहपतितः सोऽवोचत् - हे सुन्दरि ! मामुपलक्षयसि त्वं ? अथ सा वक्ति स्म - ओमिति यत्त्वं मे प्राणपतिरहं च त्वत्प्रेयसी । तेनोक्तं हे प्रियेऽयं सम्बन्धस्तु विश्वस्मिन्नपि विश्वे प्रसिद्धः, परमन्यः कोऽपि सम्बन्धोऽस्तीति त्वं न वेत्सि । किं न वेद्मीति तयाऽभिहिते सोऽवादीत्, हे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org