Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 348
________________ Jain Education International प्रशस्तिः जिनेश्वरः । आसीद्वीरो जितानङ्गवीरो वीरो सुरसार्थं पुपोषोच्चैः, स्वर्गवीवत् यदीयगीः ॥ १ ॥ तत्पदपद्मिनीपद्मबन्धुः सिन्धुः शुभाम्भसाम्। ॥ २ || श्रीसुधर्म्माऽभवद्धर्माधिकारीगणभृद्वरः तत्क्रमेणाऽभवद्वज्रि - नतो वज्रर्षिसूरिराट् । जनको वज्रशाखायाः, पद्माया वीचिमानिव ॥ ३ ॥ तत्पट्टाऽम्बम्बरदिनमणि- रुदितः श्रीवज्रसेनगुरुरासीत् । नागेन्द्र-चन्द्र-निवृत्ति - विद्याधर संज्ञकाश्च तत्शिष्याः 11 8 11 स्वस्वनामसमानानि, तेभ्यश्चत्वारि जज्ञिरे । कुलानि काममेतेषु, कुलं चान्द्रं तु दिद्युते ॥ ५ ॥ भास्करा इव तिमिरं, हरन्तः ख्यातिभाजनम् । भूरयः सूरयस्तत्र, जज्ञिरे जगतां मता: 11 ६॥ बभुवुः क्रमतस्तत्र, श्रीजगच्चन्द्रसूरयः । यैस्तपा बिरुदं लेभे, बाण - सिद्धयर्क १२८५ वत्सरे ॥७॥ सूरयोऽभवन् । || ८ ॥ - क्रमेणाऽस्मिन् गणे हेम - विमला: तत्पट्टे सूरयोऽभूव - न्नानन्दविमलाऽभिधाः साध्वाचारविधिः पथः शिथिलतः, सम्यक् श्रियां धाम यैरुद्दध्रे स्तन-सिद्धि-सायक-सुधारोचि १५८२ र्मिते वत्सरे । जीमूतैरिव यैर्जगत्पुनरिदं पं हरद्भिर्भृशं सश्रीकं विदधे गवां शुचितमैः स्तोमै रसोल्लासिभिः ॥ ९ ॥ तत्पदकरटिकरटस्थलैकसिन्दूरसदृशसौभाग्याः । श्रीविजयदानसूरीश्वरा अभूवन् महाविभवाः ॥ १०॥ For Private & Personal Use Only ३०३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380