Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 346
________________ तरङ्ग १० / कथा २५८ ३०१ महाराजस्य प्रेयसी, किञ्च आसन्नप्रसवा सुलोचना भृशमशर्मदधती रोदिति इति स्वस्वामिनाभिहितस्वरूपां तां दिदृक्षूनागच्छतां (त) स्तत्सेवकान्निरीक्ष्य सा सतीमतल्लिका मा माममी स्पृशन्त्विति धिया प्रागेवाभरणानि त्यजन्ती मा भैषीरिति तैरभाषि । तेषु तत्सेवकेष्वेवं वदत्सु वज्रजङ्घोऽपि तत्र सपद्येव समुपेयिवान् । I हे भगिनि ! श्रावकोऽहं तेन मदग्रे वद, काऽसि त्वं ? कस्याऽऽत्मजा ? कस्य प्रियतमा चेति । तेनेति पृष्टा सा रहसि कस्यापि पुरस्त्वया न वाच्यमित्यभिधाय यथाजातं सर्वमात्मनः स्वरूपं जगाद। स्वसृत्वेन तेनाऽङ्गीकृता तद्वेश्मनि समेता सा शुभेऽहनि मदनाङ्कुशलवणाङ्कुशनामानौ द्वौ सुतौ प्रसूते स्म । अथैतौ सिद्धार्थनाम्नः सिद्धपुत्रस्य समीपे द्वासप्ततिकलाः कलयतः स्म । क्रमेण तौ कामकेलिवनं यौवनं प्राप्तौ । आद्यः श्रीवज्रजङ्घ- राजस्य सुताः परिणीतवान्। अज्ञातवंशस्य पुत्री न देयेति नारदेन कोपितस्य, रामसुतोऽयमिति च नारदेनैव तोषितस्य पृथोः क्ष्मापस्य सुता अपरः पर्यणैषीत् । अथ तौ बलप्रबलबलौ दिग्विजयं विदधान क्रमेणाऽयोध्यां राजधानीं रुरुधतुः । राम-लक्ष्मणावपि ताभ्यां समं संग्रामं चक्रतुः । एतौ सीताप्रसूतौ श्रीरामसुताविति नारदेन भेदं नीता विभीषण- भामण्डलादय उदासीना एवाऽवतस्थिरे। तदा च हल-मुशल-चक्रेषु शस्त्रेषु मुधा जातेषु किं वासुदेव - बलदेवाविमाविति विषादमापन्नं श्रीराममेतौ भवत्सुतौ को हर्षस्थाने विषाद इति नारदो जगाद । अथ तौ द्वौ भ्रातरौ पितृ-पितृव्याभ्यां सङ्गतौ । सर्वेऽप्यमी सङ्गताः परां प्रीतिमापुः । अस्मिन्नवसरे तत्र स्थिता सती सीतापीति दृष्ट्वा स्वयं पुण्डरीकपुरं ययौ । लोकोत्तरेण दिव्येन सकललोकसाक्षिकं शुद्धामेव सीतामहमङ्गीकरिष्यामीति प्रबलप्रतिज्ञापरेण रामेण प्रहिता बिभीषणभामण्डलादयो विहितदिव्यैवाहमयोध्यामेष्यामीतिदृढनियमप्रह्वां तामयोध्यामानयन्ति स्म । सुप्रपञ्चां पञ्चशतकोदण्डदीर्घा सार्धद्विशतधनुर्विस्तारां सार्धद्विचापनिम्नां सुविकसितकिंशुक-शुकमुख-गुञ्जार्ध - जपापुष्प- हिङ्गुलपटलतिरस्कारकारिभिरङ्गारैः परितः पूर्णां खातिकामवगाहयितुमुद्यता सा सीता सती तदभ्यर्णमागत्येदमवादीत्— मनसि वचसि काये जागरे स्वप्नमार्गे, यदि मम पतिभावो राघवादन्यपुंसि । तदिह दह शरीरं मामकं पावकेदं सुकृतविकृतिभाजां प्राणिनां त्वं हि साक्षी ॥४॥ तदा चोत्पन्नकेवलज्ञानस्यानन्तवीर्यस्य साधोः केवलमहिमोत्सवकरणार्थं गच्छता पुरन्दरेण प्रेषितस्य हरिणैगमेषिणः साहाय्येन सीता तां खातिकां पुष्करपूर्णां पुष्करिणीमिवाऽवगाहते स्म । तदा च त्रिदशैस्तस्याः शिरसि पुष्पप्रकरवृष्टिं विधायेति बाढमूचिरेदत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चकजलाञ्जलिर्गुणगणारामस्य श्चारित्रस्य दावानलः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380