________________
तरङ्ग १० / कथा २५८
३०१
महाराजस्य प्रेयसी, किञ्च आसन्नप्रसवा सुलोचना भृशमशर्मदधती रोदिति इति स्वस्वामिनाभिहितस्वरूपां तां दिदृक्षूनागच्छतां (त) स्तत्सेवकान्निरीक्ष्य सा सतीमतल्लिका मा माममी स्पृशन्त्विति धिया प्रागेवाभरणानि त्यजन्ती मा भैषीरिति तैरभाषि । तेषु तत्सेवकेष्वेवं वदत्सु वज्रजङ्घोऽपि तत्र सपद्येव समुपेयिवान् ।
I
हे भगिनि ! श्रावकोऽहं तेन मदग्रे वद, काऽसि त्वं ? कस्याऽऽत्मजा ? कस्य प्रियतमा चेति । तेनेति पृष्टा सा रहसि कस्यापि पुरस्त्वया न वाच्यमित्यभिधाय यथाजातं सर्वमात्मनः स्वरूपं जगाद। स्वसृत्वेन तेनाऽङ्गीकृता तद्वेश्मनि समेता सा शुभेऽहनि मदनाङ्कुशलवणाङ्कुशनामानौ द्वौ सुतौ प्रसूते स्म । अथैतौ सिद्धार्थनाम्नः सिद्धपुत्रस्य समीपे द्वासप्ततिकलाः कलयतः स्म । क्रमेण तौ कामकेलिवनं यौवनं प्राप्तौ । आद्यः श्रीवज्रजङ्घ- राजस्य सुताः परिणीतवान्। अज्ञातवंशस्य पुत्री न देयेति नारदेन कोपितस्य, रामसुतोऽयमिति च नारदेनैव तोषितस्य पृथोः क्ष्मापस्य सुता अपरः पर्यणैषीत् । अथ तौ बलप्रबलबलौ दिग्विजयं विदधान क्रमेणाऽयोध्यां राजधानीं रुरुधतुः । राम-लक्ष्मणावपि ताभ्यां समं संग्रामं चक्रतुः । एतौ सीताप्रसूतौ श्रीरामसुताविति नारदेन भेदं नीता विभीषण- भामण्डलादय उदासीना एवाऽवतस्थिरे। तदा च हल-मुशल-चक्रेषु शस्त्रेषु मुधा जातेषु किं वासुदेव - बलदेवाविमाविति विषादमापन्नं श्रीराममेतौ भवत्सुतौ को हर्षस्थाने विषाद इति नारदो जगाद । अथ तौ द्वौ भ्रातरौ पितृ-पितृव्याभ्यां सङ्गतौ । सर्वेऽप्यमी सङ्गताः परां प्रीतिमापुः । अस्मिन्नवसरे तत्र स्थिता सती सीतापीति दृष्ट्वा स्वयं पुण्डरीकपुरं ययौ । लोकोत्तरेण दिव्येन सकललोकसाक्षिकं शुद्धामेव सीतामहमङ्गीकरिष्यामीति प्रबलप्रतिज्ञापरेण रामेण प्रहिता बिभीषणभामण्डलादयो विहितदिव्यैवाहमयोध्यामेष्यामीतिदृढनियमप्रह्वां तामयोध्यामानयन्ति स्म ।
सुप्रपञ्चां पञ्चशतकोदण्डदीर्घा सार्धद्विशतधनुर्विस्तारां सार्धद्विचापनिम्नां सुविकसितकिंशुक-शुकमुख-गुञ्जार्ध - जपापुष्प- हिङ्गुलपटलतिरस्कारकारिभिरङ्गारैः परितः पूर्णां खातिकामवगाहयितुमुद्यता सा सीता सती तदभ्यर्णमागत्येदमवादीत्—
मनसि वचसि काये जागरे स्वप्नमार्गे, यदि मम पतिभावो राघवादन्यपुंसि । तदिह दह शरीरं मामकं पावकेदं सुकृतविकृतिभाजां प्राणिनां त्वं हि साक्षी ॥४॥
तदा चोत्पन्नकेवलज्ञानस्यानन्तवीर्यस्य साधोः केवलमहिमोत्सवकरणार्थं गच्छता पुरन्दरेण प्रेषितस्य हरिणैगमेषिणः साहाय्येन सीता तां खातिकां पुष्करपूर्णां पुष्करिणीमिवाऽवगाहते स्म । तदा च त्रिदशैस्तस्याः शिरसि पुष्पप्रकरवृष्टिं विधायेति बाढमूचिरेदत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चकजलाञ्जलिर्गुणगणारामस्य
श्चारित्रस्य
दावानलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org