Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 343
________________ कथारत्नाकरे श्री ॥ २५७॥ अवश्यभाविविषये भाविनीराज्ञीकर्मरे खराजकथा दैव-देव- पार्थिव-परिवारादिसामग्रीबलात्कर्म बलवत्तरं, यतः - ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः, सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥१॥ तेन पुरातनप्रौढपण्डितैर्दैवविधीन् विमुच्य कर्मभ्य एव नमस्कारश्चक्रे । यतः - नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा, विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायत्तं यदि किममरैः किञ्च विधिना, नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २॥ अपि च दैववश्यं वृथा कार्यं, विधातुं शक्नुवन्ति के । दैवादेव हि सङ्गोऽभू-द्भाविनी - कर्मरेखयोः ॥ ३॥ तथाहि— मनोरमे नगरे रिपुमर्दननामा राजा, अपुत्रिणस्तस्य भाविनीनामपुत्री, सा च पितुः प्राणेभ्योऽपि प्रेयसी, तेनैतस्याः स्नानभोजनमज्जनादिप्रह्वायामेव राजा स्नान- - भोजनमज्जनादि करोति । किं बहुना ? तन्मुखावलोकनमेव परमं पुण्यं मन्यमानः स प्रजापतिः । सा भाविनी पुण्यदत्तस्य कलाचार्यस्य समीपे चतुःषष्टिकलाभ्यासं करोति स्म । इतश्च अत्रैव नगरे सर्वथा निर्धनस्य धनदत्तस्य श्रेष्ठिनः सप्तपुत्रोपरि जातः कर्मरेखाख्यः पुत्रः, स च लघीयस्त्वेन पितुः प्रकामं प्रियः, सोऽपि तस्यैव गुरोः पार्श्वे कलाभ्यासं विधत्ते । अधीतकलाजातया तया चैकदा कर्मरेखे पार्श्वे स्थिते स गुरुरपृच्छि, हे तात! मम को वरो भावी ? इति । तेनापि लग्नमवलोक्य कर्मरेखोऽयं भवत्या भर्ता भविष्यतीति श्रुत्वा वज्रहतेव खेदमापन्ना सेति दध्यौ, हा हा! असौ वराको दौर्गत्यपुत्रको मम पतिस्तदा मम मृतिरेव श्रेयसी, किंचाऽस्मिन् संस्थिते नूनमन्यो मम भर्ता न भवितेति विचिन्त्य कोपगृहं गत्वा निःश्वासत्रस्तलोहकारभस्त्रा बाष्पपूरप्लावितकञ्चुका सा स्वं मुखं पिधाय सुष्वाप । अथ भोजनाऽवसरे क्व गता भाविनीति राज्ञा गवेषिता, क्वाप्योकसि सुप्तां तां विज्ञाय तत्राऽऽगतस्तादृशीं भाविनीमुत्सङ्गसङ्गिनीं कृत्वा राजा दुःखनिदानमप्राक्षीत् । स्वचिन्तिते तयाभिहिते राज्ञा किङ्कर्तव्यमिति सर्वेऽपि स्वसचिवाः पृष्टाः, ते प्रोचुर्हे मनुजाधिराज ! निष्कारणं मनुजमारणं तु राज्ञां नोचितं, तेनाऽस्य पितैवाऽऽकारणीयः, यथा तस्यैव किञ्चिद्वितीर्य स तत्सुतो गृह्यते, पश्चात्स्वमीप्सितं विधास्यते, तथा च नाऽऽत्मनामनीतिरिति श्रुत्वा राज्ञा स धनदत्तः समाहूतः पृष्टश्चाऽऽत्मचिन्तितं पविपातादपि कठिनतररचनं तद्वचनं श्रुत्वा साऽश्रुलोचनो धनदत्तोऽभिधत्ते स्म । हे देव ! के सुताः ? का स्त्री ? कश्चाऽहमिति सकलोऽपि मत्परिवारस्तावकीन एवास्तीति यथारुचि विधीयताम् । राजापि इतो व्याघ्र इतस्तटीति न्याये १. तुला उपदेशप्रासादे व्या. २३१ ॥ C प्रतौ पार्श्वभागे अयं श्लोकः दृश्यते २९८ उदयति यदि भानुः पश्चिमायां दिशायां, प्रचलयति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताऽग्रेशिलायां, न चलति विधिविशेषं, भाविनी - कर्मरेखः ॥ Jain Education International हेमविजयरचिते For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380