Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 340
________________ तरङ्ग १० / कथा २५४ / २५५ अभ्यर्थ्यन्ते नवजलमुचः केन वा वृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बद्धकक्षाः ॥ १ ॥ 1 किं बहुना ? परोपकारप्रह्वा हि विश्वमपि स्वैरुपकारैस्तोषयन्ति । यतःमनसि वचसि काये पुण्यपीयूषपूर्णा - स्त्रिभुवनमुपकार श्रेणिभिः प्रीणयन्तः परगुणपरमाणून् पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ? ॥ २ ॥ I अपि च परोपकाराय पयोधराणा - मिव प्रवृत्तिर्महतामिह स्यात् । हसन् रुदन् विप्रसुतो ह्यतोषि कन्याप्रदानान्नृपविक्रमेण ॥ ३॥ तथाहि - एकदा मालवाधिराजः परदुःखकातरः परनारीसहोदरः श्रीविक्रमादित्यो राजा निशि निजसौधान्तः सुखसुप्तो निशीथे हसन्तं तस्मिन्नेव क्षणे च तमेव रुदन्तमेकं नरमज्ञासीत्। अहो ! प्रकाशान्धकारयोरिव हसनरोदनयोर्मिथो महान् विरोधः, तदा कथमेकस्मिन्नेव क्षणे हसनं रुदनं च कुर्वन्नरः श्रूयते ? इति मत्वा सत्वरमेव स सत्त्वशेवधिः करवालकरः स्वसौधतो निर्गत्य शब्दानुसारेण तदभ्यर्णमागतस्तथैव हसन - रोदनपरं नरं विलोक्य स राजा हर्ष - शोकसूचकं हसन - रोदनकारणमप्राक्षीत् । अथ सोऽब्रवीत्, हे पुरुषोत्तम ! मम हर्ष - शोकनिदानं वक्तुमशक्यं, तथापि महापुरुषस्य तव पुरः किञ्चिद्वच्मि । तथा चेहत्योऽहं द्विजपुत्रः पुण्डरीकनामा भ्रमन्नत्र कानने प्रौढमिमं प्रासादमद्राक्षम् । कौतुकोत्कण्ठितमना अहं तदन्तः प्रविशन् द्वारमुखबद्धेन महावृषभेण भणितो मा याहि पुरः किन्तु प्रथमं मामारोह यथा तवाखिलमपि करस्थाऽऽमलकमिव पाताललोकं दर्शयामीति तेनाऽभिहितोऽहं तमारूढो घटिकामात्रेण सकलमपि पाताललोकमालोक्य तत्पृष्ठस्थस्तत्रैवागतोऽहं तस्मादवरुह्य प्रथमां भूमिं चारुह्य द्वितीयां भूमिकां चटंस्तत्र द्वारस्थेन तुरगेणाऽहमभिहितः, हे नरोत्तम! मामारोह यथाहं तव सर्वमपि मनुष्यलोकं स्वपाणिस्थरेखापटलमिव दर्शयामीति श्रुत्वा मया तथैव विहिते सोऽपि मम निखिलमपि मनुष्यलोकमदीदृशत् । अहमपि तथैव तृतीयभूमिकां चटंस्तत्र बद्धेन महागजेनाऽभिदधे - हे नरशार्दूल! किं ममाऽवज्ञया पुरस्ताद् व्रजसि ? तेन मत्पृष्ठमारोह, यथाहं तव मुकुरसङ्क्रान्तस्वमुखमिव निखिलमपि त्रिदशलोकं दर्शयामीति तदुक्तेन मया सत्वरमेव विहिते तमारूढोऽहं सर्वमप्यमरलोकमद्राक्षम् । २९५ तथैव ततश्चतुर्थीभुवामारूढोऽहममरीमिव रमणीयरूपां भृशं सुभगस्वरूपां लक्ष्मीमिव मणिमौक्तिकसुवर्णादिमहार्घभूषणभूषितां पाणिपादादिसर्वशरीराऽवयवैरदूषितां कनकसिंहासनस्थां वयःस्थामेकां कन्यामपश्यम् । अथ तया सह सरागप्रेमालापादिविधित्सया तदभ्यर्णे गच्छन्नहं तत्सिंहासनवामपादबद्धेनैकेन खरस्वरेण [ खरेण ] भणित, हे नर ! मामारोह, यथाहं तव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380