Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२८५
तरङ्ग १०/ कथा २४६/२४८ तस्मिन् धीरो दध्यौ, एतादृशाः पापिनो गताक्षा एव वरं, तेन जाननप्यस्य दृग्भेषजं न वक्ष्ये । पापिनां हि बधिरत्वा-ऽन्धत्व-मूकत्व-पङ्गत्वादिदोषाः परापवाद-परस्त्रीमुखावलोकन-परावर्णवर्णनपरधन-हरणाद्यनर्थहेतवो न इति मत्वा स भेषजं पृच्छतस्तस्य प्रत्युत्तरमपि न दत्ते।।
तथा दृग्भेषजं ब्रूहि दृग्भेषजं ब्रूहीति प्रतिदिनं कुरोः कथनेन अतिमथनेन चन्दनाद्वह्निरिव कुपितस्य तस्य धीरस्य मुखाद् याहि याहि त्वच्चक्षुष्यर्कतरोर्दुग्धं निक्षिपेति कठिनं वचनं निर्ययौ। श्रावकत्वेन सत्यवादिनस्तस्य वचनं समीचीनं मन्यमानः स सत्वरं ततो गत्वा स्वगृहपृष्ठस्थस्य गुरोरर्कतरोर्दुग्धं स्वचक्षुषि निक्षिपति स्म। सुधाऽञ्जनेनेव तेन दुग्धेनाऽञ्जितं तन्नयनं निर्मलतरमजनि। किं बहुना ? नक्तमपि दिवेव पश्यन् स समजनिष्ट। अथैकदा स कुरुचाण्डालः सुवर्णादिनाणकं युग्मं च वरवसनयोः श्रीफलदशकं च प्राभृते धीराह्वस्य श्रावकस्य पुरो मुमोच। किमर्थमिदं मदग्रे प्राभृतीक्रियते ? इति त्वदुक्तेन भेषजेन मन्नेत्रं निष्पटलमभूदित्यनृणत्वाय मयैतदुपदीक्रियते, तत् श्रुत्वा यदि चाऽर्कदुग्धेन चक्षुः स्फुटति, तदा कथमस्य चक्षुः सज्जमासीदिति मत्वा तेन नेत्रचिकित्साशास्त्रपुस्तकमीक्षितं, धरान्तर्निहिते निभृतघृतभृते मृद्भाजने प्ररूढस्याऽर्कतरोर्दुग्धेन चक्षुःपटलं सपदि प्रयातीति सम्यग् ज्ञात्वा धीरेण चाण्डालपाटके तद्गृहपृष्ठे तत्राऽर्कतरोरश्च गत्वा तत्तथैव निरणायि, उक्तश्च कुरुरिति, हे भद्र ! तवानेन प्राभृतेनालमेतत्पश्चाद् गृहाण, किंत्वद्यप्रभृति त्वया दया पालनीयेति हितोपदेशैः स श्रावकस्तं सर्वथा प्राणाऽतिपातविरतं विधत्ते स्म ॥ इति महद्भिः सह परिचयेऽपि हिताऽवाप्तिरित्यर्थे कुरुनामचाण्डालकथा ॥ २४७॥
॥ २४८॥ बालाः स्वकदाग्रहं न त्यजन्तीत्यर्थे सुमतिमन्त्रिकथा॥
यस्य तस्यापि कदाग्रहो मोचयितुमशक्यः, तत्र च बालानां कदाग्रहस्तु विशेषतो मोचयितुमशक्यः, यतः-- नारीणामिव बालानां, दुरुत्तारः कदाग्रहः । यन्नोदतारि भूपेन, सोऽर्भीभूतस्य मन्त्रिणः ॥१॥
तथाहि-बलाज पुरे पुरन्दरस्य राज्ञः परम्परागतः प्रवयाः सुमतिनामाऽमात्यः, तस्य मन्त्रिणो वार्धक्ये पुत्रो जातः, स च सूनुर्वार्धक्ये जातत्वेन पितुः प्राणेभ्योऽपि प्रेयान्, यतः
वडपणि पूतपूतमनि मायउद्भाल इव वरतरु अरच्छाय
तरस्यानीर मोर मनिमेह प्रगटा पांचइ वल्लभ एह ॥ २ ॥ तेन तल्लालनपालनखेलनजनितव्यग्रयवशतो राजसेवावसरमतिक्रम्याऽतिक्रम्य स मन्त्री सभायामायाति । इत्थं मन्त्रिणोऽवसराऽतिक्रमेण राजकार्याणि सीदन्ति स्म। सचिवोऽपि सुतलालनलीलाविलासेन स्वजन्म सफलं विदन् दिने दिने बहु बहु विलम्बं विदधे। यतः
पियं महिलामुहकमलं, बालमुहं धूलिधूसरच्छायं ।
सामिमुहं सुपसन्नं, न हुंति थोवेहिं पुन्नेहिं ॥ ३॥ डिंभाण रवो तुरियाण, सद्दो मग्गणजणाण करपसरो ।
गुहिरविलोअणसद्दो, धन्नाण घरे समुच्छलइ ॥ ४॥ १. तुला- अर्कञ्च मूलमापोय्य, मुहूर्तं वारिणि न्यसेत् । एतदाव्योतनं दृष्टं नयनामयनाशनम् । इति वङ्गसेने नेत्ररोगाधिकारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380