Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 333
________________ २८८ क्यारत्नाकोश्री हेमविजयरचिते विशेषतस्तस्य सङ्गीतगीतकलाकलापेन प्रीतस्वान्तो राजा तं भोजना-ऽऽच्छादन-शयनाऽऽसन-गमनादिषु सकलेष्वपि कृत्येषु सहभागिनं कुरुते स्म। तस्य च राज्ञो महमल्लेति पात्रं, सा चोर्वशीव नृत्यकलाकुशला, रतिरिव रूपसौभाग्यपेशला, लक्ष्मीरिव पुरुषोत्तमचित्तहारिणी, पार्वतीव महेश्वरस्वान्तवशकारिणी, रोहिणीव राजमनःप्रसादिनी, वसन्त श्रीरिव कामोन्मादिनी, जोहणेन सममन्तःपुरान्तस्तस्थुषो राज्ञोऽग्रे नित्यं नृत्यं करोति । जोहणोऽप्याऽऽहार्य-वाचिकाऽऽङ्गिक-सात्विकप्रभृतिचतुर्विधाभिनयसूचिताशेषवस्तुविस्तारं ग्रामत्रयाभिरामषड्जादिषट्स्वरपेशलालापप्रपञ्चिताशेषस्वान्तचमत्कारं तत-घन-शुशिरा-नद्धादिचतुर्विधातोद्यहृद्यं गीतानेकपुरातनपुरुषप्रधानप्रबन्धपद्यं विहिताप्सरोजनकलाहास्यं लास्यं विदधानं महमल्लाभिधानं भूपपात्रं वीक्ष्य जोहणोऽपि प्राप्तपरमानन्द इव मुदा मेदस्वी बभूव । महमल्लापि ताण्डवाडम्बरगुणज्ञं तं मत्वा विशेषतो निजनृत्यविज्ञानमदीदृशत्। किं बहुना ? सा पात्रं, पात्रगुणज्ञश्च स इत्येतौ द्वावपि मिथो मनसा दृशा च सङ्गतौ। अन्येधुस्तयोः कौशलेन प्रमना: पार्थिव: पार्वतीमहेशयोरिव तयोः परस्परं प्रभूतं प्रेम मत्वा, यावदिह त्वं तिष्ठसि तावदियं तव कलत्रमित्यभिधाय तां तस्मै ददौ, अथैतौ निशङ्कं रेमाते । रम्भया समं जम्भारेरिव तया सह कामभोगान् भुञ्जानस्य तस्य कलेव द्वादशाब्दी व्यतिचक्राम। इतश्च पतिशुद्धिमलभमाना सा जयन्ती श्वशुरमाह, हे तात! सौभाग्यपराभूतश्रीसुतस्य तव सुतस्य शुद्धिर्नास्ति, तेनाहं वराकी कथं भवामीति स्नुषावचनैरुज्जागरितप्रबलशोकाङ्करः स स्नुषां बभाषे, हे पुत्रि! अद्यप्रभृति पुत्रस्यावश्यं शुद्धिं करिष्यामीत्यभिधाय तस्थुषस्तस्यैकदा चित्रकूटादागतः कोऽपि भट्ट मिलितः, त्वं कुतः समागा इति पृष्टोऽसावभाषिष्ट चित्रकूटादिति तेनोक्ते, तत्र किमस्ति कौतुकमिति पृष्टः स पुनरभ्यधात्नाट्यपात्रं महामल्ला, जोहणश्चारणो गुणी। चित्रकूटगिरीन्द्रस्य, दृग्युग्ममिदमद्भुतम् ॥५॥ इति तद्वचसा पुत्रशुद्धिं प्राप्य स्नुषां पत्नी च पृष्ट्वा क्रमेण स चित्रकूटमाययौ। पितरमागतमुदीक्ष्य जोहणोऽप्युत्थानस्नानभोजनादिना बहु सदकरोत् । वस्त्राभरणादिभिर्गोत्रदेवमिव पितरं संतोष्य स पितुरागमनं राज्ञः पुरो जगौ। राजापि तत्पितरं तमिव कामं मन्यते स्म। पितुराग्रहेण ततो निजगृहं यियासुः स राजानमप्राक्षीत्, हे देव! चिरविरहिते मम पत्नीमातरौ खेदं कुरुतः, तेन यदि युष्मदादेशः स्यात्तदाहं निजं पुरं व्रजामीति भणितस्य राज्ञः सनिर्बन्धनिदेशेन स्वगृहगमनोत्सुको निशि महमल्लामाह स्म, हे सुन्दरि! यदि त्वं मन्यसे तदाहं स्वमातुर्मिलनाय यामि। पविपातेनेव तद्वचनेन हृदि हता सा वचना-ऽऽकारेङ्गितैः सर्वथा स्वपुरगमनोत्सुकं तं मत्वाऽब्रवीत् पाधोरे पंथें जजो, वेहेलेरा वलजो। डुंगरजीवी जीवजो, उंबर जिम फलजो ॥६॥ १. प्रीतिमती श्व० PD IN Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380