Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 329
________________ २८४ श्री कथारत्नाकरे श्री हेमविजयरचिते महतो रोगान्निराकरोतीति जनश्रुतिं श्रुत्वा स बहुमानं भीमेन राज्ञा समाहूतः, करणसिंहेन राज्ञा प्रेषितश्च स गोविन्दः सुखासनाऽऽरूढः पत्तनं प्राप। तेन भिषजा राज्ञः स्वरूपं प्रातः सायं च विलोक्य कथितं, हे राजन्नस्य महारोगस्य क्षयो नास्ति, तेन तुभ्यमस्तु स्वस्ति, अहं च गच्छन्नस्मि स्वस्थानमित्यभिधाय स निजनगरमागत्य करणसिंहराजस्य पुरो भीमराजस्य रोगस्वरूपं जगौ। अथ भीमभूपोऽपि शक्राऽशनिनेव तेन महारोगेण पराभूतः कनक-धन-धान्य-करितुरगादिवितरणेन सकलमपि लोकं सन्तोष्य सिद्धपुरपरिसरवाहिनीं सरस्वती नदी महातीर्थं मत्वा तत्तीरे मर्तुकाम: पत्तनतो निर्ययौ।अश्रान्तमश्रुबिन्दुकर्दमिताऽखिलाऽचलातलेन सकलेनाऽन्तःपुरपरिवारप्रधानपौरपरम्परा-प्रमुखेण लोकेनानुगम्यमानो राजा वर्त्मनि महदेकमीक्षुशकटमागच्छदीक्षाञ्चक्रे। सञ्जातेक्षुभक्षणेच्छ: स राजा महतीमेकामीक्षुयष्टिं मूल्येनाऽऽदाय तत्खण्डमेकमत्ति स्म। पीयूषपानादिव तस्य रसस्वादादेवराज्ञो रोग: क्षीयते स्म । किंबहुना?बहुभिरहोभिस्तस्यामेव निशि राज्ञो निद्रासुखमजायत। अथ प्रभाते राजा सर्वथाऽऽत्मानं नीरुजं मत्वा सुवर्णादि बहु धनं वितरन् ततः पश्चाद्व्याजुघोट। महोत्सवपुरस्सरं पूरितपुष्पप्रकरं नानावर्णध्वजधोरणीतोरणरमणीयं पत्तनं महानगरं प्रविश्याऽद्य लब्धाऽवतार इव राजा महान्तमुत्सवमसूत्रयत् ।अथ मिथ: सौहार्दहृद्यहृदयः श्रीभीमभूपः स्वसुहृदश्चित्रकूटाऽधिपस्य करणसिंहस्य राज्ञः स्वसमाधिसूचकं लेखं करि-तुरगादिवर्धापनिकां च प्रेषयामास। लेखादवसितभीमसमाधिना तेन स गोविन्दवैद्य इत्युपालब्धः, रे गोविन्द ! रे वैद्याऽधम! भवता मत्पुरस्तादित्यभाणि यद्धीमस्याऽऽरोग्यं न भविता, अहो! एतादृशेन वैद्यकलाकौशलेनाऽस्मदीयं ग्रामादिधनं भवता भुज्यते? अहो! राजवैद्यत्वं त्वदीयं ! येन त्वया तस्य रोगोऽपि नाऽज्ञायि, [तर्हि ] कुतः प्रतिक्रिया? अथ स वैद्यो वदति स्म, हे देव! भवता मुधैवाऽहमुपालब्धः, यतोऽहमिहाऽस्मि, स रोगस्तु तत्र शान्तिं गतः, तेनात्र स्थितोऽपि किंचिन्महत्कौतुकं वच्मि शृणु, नूनं तस्य रोगस्य शान्तिरीक्षोभक्षणेन जातास्ति। किं तदा तत्रेक्षोः प्राप्ति सीदिति पुनः स्वामिनाऽभिहिते स स्माह, 'यस्येक्षोर्मूले भुजङ्गी प्रसूता भवति, तस्येक्षो रसास्वादेन स रोग: शाम्यति । परमसम्भाव्यं न वक्तव्यमिति नीतिवचनं जानता मया तद्भेषजं नाऽभ्यधायि, यद्भेषजमाकाशकुसुममिव खरविषाणमिव च दुर्लभं, तद्भेषजकथनेन भिषजां महती त्रपा स्यात्, अथ च भवतां विनोदस्तर्हि तस्य शुद्धिर्विधीयतामिति श्रुत्वा करणसिंहेन राज्ञापि यस्मिन् ग्रामे यस्मिन् क्षेत्रे यस्मिंश्च केदारे स ईक्षुरुत्पन्नस्तस्य शुद्धिं गवेषणापुरस्सरं तत् सम्यगवगम्य गोविन्दो विशेषतो बहुमेने। ॥ इति पुण्यप्रभावे पत्तनाधीशभीमनृपकथा ॥२४६॥ ॥ २४७॥ महद्भिः सह परिचयेऽपि हिताऽवाप्तिरित्यर्थे कुरुनामचाण्डालकथा॥ अपि विरुद्धवचनं वदतां महतां संस्तवोऽवश्यं श्रेयसे, यतःद्वेषोक्तिरपि महतां, ध्रुवं भवति सिद्धये । यद्धीरोक्तार्कदुग्धेन, चक्षुः सज्जमभूत्कुरोः ॥ १।। तथाहि- देवकुलग्रामे परमार्हतः पुण्यवान् वैद्यविज्ञानविज्ञो विशेषतो नेत्रचिकित्सानिपुणः श्रीमान् धीराह्वः श्रावकः । तत्रैव ग्रामे पापकर्मकर्मठः कुरुनामा चाण्डालः, स चैकेन चक्षुषा जन्मतोऽन्धः, द्वितीयमपि तस्य चक्षुः पूर्वकर्मनिर्मितेन रोगेण निस्तेजोऽजनिष्ट। ततः स पुत्रपाणिलग्नः प्रत्यहं समेत्य धीरवैद्यमेवं वक्ति, हे महानुभाव! मदीयमेकं चक्षुः सज्जं विधेहीत्यभीक्ष्णं वदति १. तुला- 'इक्षुगण्डिकां वा भक्षयेत् कृष्णसर्पण दंशयित्वा, वल्लीफलानि वा, मूलकं वा ।' इति आष्टाङ्गसङ्ग्रहे अध्याय १७ । चरकसंहिता चि. अध्य. १३. अपि द्रष्टव्या ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380