________________
२८४
श्री कथारत्नाकरे
श्री हेमविजयरचिते महतो रोगान्निराकरोतीति जनश्रुतिं श्रुत्वा स बहुमानं भीमेन राज्ञा समाहूतः, करणसिंहेन राज्ञा प्रेषितश्च स गोविन्दः सुखासनाऽऽरूढः पत्तनं प्राप। तेन भिषजा राज्ञः स्वरूपं प्रातः सायं च विलोक्य कथितं, हे राजन्नस्य महारोगस्य क्षयो नास्ति, तेन तुभ्यमस्तु स्वस्ति, अहं च गच्छन्नस्मि स्वस्थानमित्यभिधाय स निजनगरमागत्य करणसिंहराजस्य पुरो भीमराजस्य रोगस्वरूपं जगौ।
अथ भीमभूपोऽपि शक्राऽशनिनेव तेन महारोगेण पराभूतः कनक-धन-धान्य-करितुरगादिवितरणेन सकलमपि लोकं सन्तोष्य सिद्धपुरपरिसरवाहिनीं सरस्वती नदी महातीर्थं मत्वा तत्तीरे मर्तुकाम: पत्तनतो निर्ययौ।अश्रान्तमश्रुबिन्दुकर्दमिताऽखिलाऽचलातलेन सकलेनाऽन्तःपुरपरिवारप्रधानपौरपरम्परा-प्रमुखेण लोकेनानुगम्यमानो राजा वर्त्मनि महदेकमीक्षुशकटमागच्छदीक्षाञ्चक्रे। सञ्जातेक्षुभक्षणेच्छ: स राजा महतीमेकामीक्षुयष्टिं मूल्येनाऽऽदाय तत्खण्डमेकमत्ति स्म। पीयूषपानादिव तस्य रसस्वादादेवराज्ञो रोग: क्षीयते स्म । किंबहुना?बहुभिरहोभिस्तस्यामेव निशि राज्ञो निद्रासुखमजायत। अथ प्रभाते राजा सर्वथाऽऽत्मानं नीरुजं मत्वा सुवर्णादि बहु धनं वितरन् ततः पश्चाद्व्याजुघोट। महोत्सवपुरस्सरं पूरितपुष्पप्रकरं नानावर्णध्वजधोरणीतोरणरमणीयं पत्तनं महानगरं प्रविश्याऽद्य लब्धाऽवतार इव राजा महान्तमुत्सवमसूत्रयत् ।अथ मिथ: सौहार्दहृद्यहृदयः श्रीभीमभूपः स्वसुहृदश्चित्रकूटाऽधिपस्य करणसिंहस्य राज्ञः स्वसमाधिसूचकं लेखं करि-तुरगादिवर्धापनिकां च प्रेषयामास।
लेखादवसितभीमसमाधिना तेन स गोविन्दवैद्य इत्युपालब्धः, रे गोविन्द ! रे वैद्याऽधम! भवता मत्पुरस्तादित्यभाणि यद्धीमस्याऽऽरोग्यं न भविता, अहो! एतादृशेन वैद्यकलाकौशलेनाऽस्मदीयं ग्रामादिधनं भवता भुज्यते? अहो! राजवैद्यत्वं त्वदीयं ! येन त्वया तस्य रोगोऽपि नाऽज्ञायि, [तर्हि ] कुतः प्रतिक्रिया? अथ स वैद्यो वदति स्म, हे देव! भवता मुधैवाऽहमुपालब्धः, यतोऽहमिहाऽस्मि, स रोगस्तु तत्र शान्तिं गतः, तेनात्र स्थितोऽपि किंचिन्महत्कौतुकं वच्मि शृणु, नूनं तस्य रोगस्य शान्तिरीक्षोभक्षणेन जातास्ति। किं तदा तत्रेक्षोः प्राप्ति सीदिति पुनः स्वामिनाऽभिहिते स स्माह, 'यस्येक्षोर्मूले भुजङ्गी प्रसूता भवति, तस्येक्षो रसास्वादेन स रोग: शाम्यति । परमसम्भाव्यं न वक्तव्यमिति नीतिवचनं जानता मया तद्भेषजं नाऽभ्यधायि, यद्भेषजमाकाशकुसुममिव खरविषाणमिव च दुर्लभं, तद्भेषजकथनेन भिषजां महती त्रपा स्यात्, अथ च भवतां विनोदस्तर्हि तस्य शुद्धिर्विधीयतामिति श्रुत्वा करणसिंहेन राज्ञापि यस्मिन् ग्रामे यस्मिन् क्षेत्रे यस्मिंश्च केदारे स ईक्षुरुत्पन्नस्तस्य शुद्धिं गवेषणापुरस्सरं तत् सम्यगवगम्य गोविन्दो विशेषतो बहुमेने। ॥ इति पुण्यप्रभावे पत्तनाधीशभीमनृपकथा ॥२४६॥ ॥ २४७॥ महद्भिः सह परिचयेऽपि हिताऽवाप्तिरित्यर्थे कुरुनामचाण्डालकथा॥
अपि विरुद्धवचनं वदतां महतां संस्तवोऽवश्यं श्रेयसे, यतःद्वेषोक्तिरपि महतां, ध्रुवं भवति सिद्धये । यद्धीरोक्तार्कदुग्धेन, चक्षुः सज्जमभूत्कुरोः ॥ १।।
तथाहि- देवकुलग्रामे परमार्हतः पुण्यवान् वैद्यविज्ञानविज्ञो विशेषतो नेत्रचिकित्सानिपुणः श्रीमान् धीराह्वः श्रावकः । तत्रैव ग्रामे पापकर्मकर्मठः कुरुनामा चाण्डालः, स चैकेन चक्षुषा जन्मतोऽन्धः, द्वितीयमपि तस्य चक्षुः पूर्वकर्मनिर्मितेन रोगेण निस्तेजोऽजनिष्ट। ततः स पुत्रपाणिलग्नः प्रत्यहं समेत्य धीरवैद्यमेवं वक्ति, हे महानुभाव! मदीयमेकं चक्षुः सज्जं विधेहीत्यभीक्ष्णं वदति १. तुला- 'इक्षुगण्डिकां वा भक्षयेत् कृष्णसर्पण दंशयित्वा, वल्लीफलानि वा, मूलकं वा ।' इति आष्टाङ्गसङ्ग्रहे अध्याय १७ । चरकसंहिता चि. अध्य. १३. अपि द्रष्टव्या ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org