Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 296
________________ २५१ तरङ्ग ९/ कथा २२०/२२१ वक्त्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते । वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यजस्रम् । बाहुः काकुस्थवीर्यः स्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । स्वच्छन्तानसेऽस्मिन् कथमवनिपते! तेऽम्बुपानाभिलाषः ? ॥ २ ॥ सुधारश्मिनाऽम्भोनिधिरिवानेन काव्येन प्रकामोल्लासिना राज्ञाऽस्मै पाण्ड्यनृपेण ढौकितोऽसौ सर्वोऽपि दण्डो दत्तः । तद्यथा अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ता फलानां तुलाः । पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोधुराः सिन्धुराः । अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं । दण्डे पाण्ड्यनृपेण ढौकितमिदं वेतालिकस्याऽर्पितम् ॥ ३॥ सकलमिमं विभवमादाय व्रजन् वेताल: परिजनेनाऽभाणि, हे स्वामिन् ! हे विशारदवृन्दशार्दूल ! भूयानयं विभवोऽस्यै वेश्यायै कथं दीयते? यतो वेश्याः सर्वथा निन्द्याः यतः क: कोपः कः प्रणयो, नटविटहतमस्तकासु वेश्यासु । रजकशिलातलसदृशं, यासां जघनं च वदनं च ॥ ४॥ अपि प्रदत्तसर्वस्वान्, कामुकान् क्षीणसंपदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः ॥५॥ [योगशास्त्रे २/९] एतदाकर्ण्य वेतालः प्राह स्ववचनसीमानं पालयद्भिः सत्पुरुषैः किं किं न दत्तं किं किं च न कृतं ? यतः वचनच्छलिओ बलिराय, वचन कौरव कुल खोयोवचन करण दिओ कवच, वचन पांडव वन सेव्यो । वचन-लगिं हरिचंद नीच घरि नीर समप्पउ वचनलगि श्रीराम लंका जु बिभीषण घेप्पउ ॥ तिणि मुखि अवाज वेताल कहि, कर गहि जीह ज कहिउं जलि जाकु लच्छि विक्रमतणी, बुहिडन वचन पल दिहिउ ॥६॥ इति मत्वा स्ववचनरक्षाविचक्षणो वेतालः सकलोऽप्यसौ दण्डः वेश्यायै वितीर्णवान् । ॥ इति वचनपालने वेतालभट्टकथा ॥ २२०॥ ॥ २२१॥ कुगुरुसार्थे न गन्तव्यमित्यर्थेऽकुशलद्विजकथा ॥ निरक्षरो हि गुरुरनर्थहेतुरेव, यतः माठो धोरी-ठोठ गुरू, कुइ ते खारूं नीर । ग्रामि कुठाकुर घरि कुघरि[णि ] पंचइ दहइ शरीर ॥ १॥ अपि च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380