Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२७४
श्री कथारत्नाकरे
श्री हेमविजयरचिते अथ जटिलयोगिवरोचिताऽऽशीर्वादेन तत्कालप्राप्तवैधव्यायाः कस्याश्चित्कुविन्ददयिताया गृहे गत्वा श्रीभोजो भिक्षामयाचिष्ट। यत:
"भिक्षा में पथिकाय देहि सुभगे!' 'हा हा गिरो निष्फलाः।' 'कस्माद् ब्रूहि शुभे!' 'प्रसूतकमभूत्' 'कालः कियान् वर्तते?'। 'मासः शुद्धिरभून्न शुध्यति विभो! जातस्य मृत्युं विना।'
'को जातो ?' 'मम सर्ववित्तहरणो दारिद्य्नामा सुतः' ॥ ८॥ पुनः पुरो गच्छन् श्रीभोजः सान्द्रे तमसि स्वैरं व्रजन्तीं कांचित्स्वैरिणीमभणत्, यतः'क्व प्रस्थिताऽसि करभोरु! घने निशीथे,' 'प्राणाऽधिपो वसति यत्र मन:प्रियो मे।' 'एकाकिनी वद कथं न बिभेषि बाले!' 'नन्वस्ति पुंखितशरो मदन: सहायः' ॥ ९॥
__ इत्थं लोहकार-कुम्भकार-चित्रकार-रजकप्रभृतिप्रभूतपौरपाण्डित्याऽवगमप्राप्तविस्मयं सरस्वतीकुटुम्बधनिकं सहाऽऽदाय स्वामास्थानीमागत्य श्रीभोज: स्माऽऽह, हे पुरुषोत्तम! हे पण्डितोत्तम! एवं सकलविशारदलोकैः पूर्णायां मन्नगर्यां भवदवस्थानोचितं स्थानं नास्ति, तेन भवतां वासः क्व मया दीयते? अथ तत्पाण्डित्यदर्शनार्थं सकलकोविदरम्यायां सभायां भूपः पुनरेनां समस्यामप्राक्षीत्। 'किणि मुखि पाउं नीर' सद्य एवैनां समस्यां पण्डितः पूरितवान्
जणि दिनि रावण जनमीओ, दसमुख एक शरीर ।
तस जणणी संशय पडी, किणि मुखि पाउं नीर ? ॥१०॥ अहो एतावन्तं कालमेषा समस्या केनापि न पूरिता, अनेन तु सपद्येवाऽपूरि, तदसौ महान् कविः, इति चमत्कृतेन श्रीभोजेन विशेषतः सत्कृते तस्मिन् पण्डिते प्रकामं स्पर्धां दधानः सर्वैः पुरपण्डितैः कुपितदेवमारितबहुविशारदोपद्रवकलिते कस्मिंश्चित्सौधे वासो दापितः । अन्येषु प्रसुप्तेषु धनिके च यामिकत्वं विदधति सति प्रथमे प्रहरे तत्सौधाधिपसुरः पूर्वं प्रभूतैरपि पण्डितैरपूरितामिति समस्यामप्राक्षीत् 'स्त्रीपुंवच्चेति' पण्डितस्तु सत्वरमेव तत्पदपूर्तिं विधत्ते स्म['स्त्री पुंवच्च] प्रभवति यदा तद्धि गेहं विनष्टम्।।
भृशं सन्तुष्टः स देवो द्रुतं तिरोऽभूत्। अथ तथैव द्वितीयस्मिन् प्रहरेऽपि स देवः 'वृद्धो यूनेति' समस्यां तत्पुत्रं प्रति पृच्छति स्म। असावपि सद्य एव [वृद्धो यूना] सह परिचयात्त्यज्यते कामिनीभिः' इत्यपूरयत्।।
तथैव तृतीयेऽपि यामे स 'एको गोत्रे' इति समस्यां तत्पत्नीमपृच्छत्। साऽपि तां त्वरितमेव पतिवत्पूरयति स्म, ["एको गोत्रे] स भवति पुमान् यः कुटुम्बं बिभर्ति।' अथ चतुर्थेऽपि यामे 'सर्वस्य द्वे' इति समस्यां तत्स्नुषां पप्रच्छ। सापि शीघ्रमेव पूरयामास, ['सर्वस्य द्वे] सुमतिकुमती पूर्वकर्मा-नुचीर्णे' कादम्बिन्या मयूर इवाऽनया समस्यापूर्त्या भृशं प्रमनाः स सुमना: कुसुम-कनक-वसन-धनदानादिना तान् सर्वानपि सत्कृत्य तिरोदधे। अथ राजापि रात्रिव्यतिकरं ज्ञात्वा तेन देवेन सत्कृतांस्तांश्च दृष्ट्वा कनक-करि-तुरग-नगरादिबहुसम्पत्तिदानबहुमानैः प्रसादपात्रं कृत्वा स्वस्मिन्नेव नगरे वासयामास ॥ इति पण्डितपाण्डित्ये सरस्वतीकुटुम्बकथा ॥ २४०॥ १. तुला - प्रभावकचरिते बप्पभट्टिसूरिचरितमध्ये श्लो. ८५६, पृ. ९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380