Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 321
________________ २७६ श्री कथारत्नाकरे श्री हेमविजयरचिते हे देव! बहवो धर्मिणः पापिनोऽल्पीयांसश्च, कथमेतदिति गाढमाग्रहेण भणितो मन्त्री श्वेतं श्यामं चेति चैत्यद्वयं पुराबहिरचीकरत्। धर्मवद्भिर्धवले प्रासादे, पापवद्भिश्च श्यामले प्रासादे समागन्तव्यमिति पडहोद्घोषणां सकलेऽपि पुरे त्रिक-चत्वर-राजमार्ग-महापथादिष्वभयो मन्त्री कारयति स्म। अथ स्वस्वसम्पदनुसारेण विहितवेषा अशेषा अपि पौरा धवलं प्रासादमुपेयिवांसः, द्वौ मातुल-भागिनेयौ तु श्यामलं प्रासादं समेतौ। अथ स्वपरिवारपरिवृतोऽभयेन मन्त्रिणाऽनुगम्यमानो राजा तत्र प्रासादपार्श्वे प्राप्तः, सकलमपि पौरवर्गं धवले प्रासादे दृष्ट्वाऽभाषिष्ट, भोः पौरा: ! कथं सर्वेऽपि यूयं श्वेते चैत्ये प्राप्ताः ? अथ तेऽभ्यधुः, हे राजेन्द्र ! स्वस्वकुलक्रमागताऽऽचारकरणेन वयं सम्यग्धर्मिणः, तेन चाऽत्र प्रासादे समेताः स्मः। अहो! प्राणातिपात-मृषावादा-ऽदत्तादानपरदारागमन-द्यूतादिसप्तव्यसनाद्यशेषदोषखानयः सर्वेऽप्यमी धर्मवन्तः। __एवं च समीचीनमेवाऽजनि वचनमभयस्य मन्त्रिण इति मत्वा राजा श्यामप्रासादे प्राप्तः, तत्र च तौ द्वावेव मातुल-भागिनेयौ दृष्टौ पृष्टौ च, कथं युवामत्र चैत्ये प्राप्तौ? ताभ्यामुक्तं हे स्वामिन्नाऽऽवाभ्यां पुरा श्रीसुधर्मस्वामिनोऽभ्यणे सुराया मांसस्य चेति पृथक् पृथक् नियमावङ्गीकृतौ, किंत्वावयोस्तयोर्नियमयोर्भङ्गोऽभूत, तेनाऽऽवां महापापिनौ, यतः 1 [वरमग्गिंमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं । मा गहियव्वयभंगो, सया अखंडियसीलस्स ॥ १ ॥] व्रतलोपी महापापी अतः कारणादावामिह प्रासादे प्रविष्टौ। अथाऽभयो बभाषे, हे देव! परमार्थतस्तु धर्मिणः स्तोका इमौ मातुल-भागिनेयाविवेति मन्त्रिवचनं समीचीनं मन्यमानाः सर्वेऽपि पौरा राजा च स्वं स्वं स्थानं यान्ति स्म। ॥ इत्यभयमन्त्रिकारितश्वेत-श्यामचैत्यकथा ॥२४२॥ ॥ २४३॥ गुरुनिरीहत्वे श्रीसिद्धसेनसूरि-श्रीविक्रमादित्यभूपतिकथा ॥ सन्तोषो हि नराऽमरादिसंवननौषधं, यतःसन्निधौ निधयस्तस्य, कामगव्यनुगामिनी। अमरा: किङ्करायन्ते, सन्तोषो यस्य भूषणम् ॥ १ ॥ [योगशास्त्रे २/११५] किं बहुना? सन्तोषजुषां सर्वं समीचीनमेव, यतःवह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्, मेरु: स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते। व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते, यत्स्वान्तेऽखिललोकवल्लभतमः सन्तोषपोष: सखे !॥२॥ सन्तोषवतां सन्तोषोऽन्येषामपि धर्मप्राप्तिहेतुः, यतःनिरीहता संयमिनां प्रकामं, धर्माप्तिहेतुः किल कस्य न स्यात् ? । श्राद्धोऽभवद्विक्रमराड् निरीहं, निरीक्ष्य राज्येऽपि हि सिद्धसेनम् ॥ ३॥ तथाहि विद्याधरगच्छे श्रीपादलिप्ताचार्यसन्ताने श्रीस्कन्दिलाचार्यपार्श्वे गृहीतदीक्षो वृद्धो मुकुन्दाभिधो विप्रो बाढस्वरेण रात्रौ भणन् गुरुणेति निषिद्धः, हे वत्स! आत्मनां रात्रौ बाढस्वरेण भणनं नोचितम्। अथ स दिवसेऽपि बाढस्वरेण भणन् श्रावकैरभाणि, किमसौ प्रवयाः पठित्वा १. तुला - प्रभावकचरित्रे, पृ. ५४, प्रबन्धकोशे पृ. १५ प्रबन्धचिन्तामणौ विक्रमार्कप्रबन्धे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380