Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२७८
श्री कथारत्नाकरे
श्री हेमविजयरचिते घारी घेवर घीअरस, घोल घणे होय। घरघरणी छांदा करे, सरग न वांछे कोय ॥१५॥ छासी छमको छांहडी, छांदाबोली नारी।छायलओढणी छत्र सिर, एछए पुण्य विचारि ॥१६॥ कुंकुम कज्जल केवडो, कंचन कूर कपूर।कोमल कप्पड कव्वरस, एहि ज पुण्यअंकूर ॥१७॥
भूख भलप्पण भावतुं, भडवीर भलो ज भाय ।।
भामिणी भोयण भोगभर, ए नव पुण्यपसाय ॥ १८॥ बाई बंभण बारहट, बोडा बहिरा बाल। छए बबा तो जे घरे, तिण घर बंधु ज चाल ॥१९॥ खांडं खेती खीचडी, खडकी खारेक खीर।तूठो तुं ततखिण दीए, ए छए वीठल वीर ॥२०॥
एवमादिकं दोधकशतं वृद्धवादिपठितं श्रुत्वा हृष्टा गोपाला लपन्ति स्म, अहो! असौ वृद्धो वादी सर्वज्ञः, यतोऽसौ श्रुतिसुखमवसरोचितं च पठति, सिद्धसेनस्त्वसारकः, तेनाऽनेन वृद्धवादिनाऽसौ सिद्धसेनो जितः, इति तैर्निन्दितः सिद्धसेनः स्माह, हे भगवन् ! पूर्णप्रतिज्ञं मां प्रव्राजय, तव शिष्योऽहं भवामीत्याग्रहपरोऽसौ सूरिभिस्तदैव दीक्षितः, कुमुदचन्द्र इति चास्याभिधा व्यधायि, क्रमेण सिद्धसेनदिवाकर इति नामविधानपुरस्सरं च सूरिभिः सूरिपदे स्थापितः।
एकदा सकलमप्यागमं संस्कृतं करोमीति वचनेनाऽनन्ततीर्थंकर-गणधर-पूर्वधराणामाशातनासञ्जातपातकपरः परं पाराञ्चितनाममहाप्रायश्चित्तमङ्गीकृत्यसुगुप्तमुखवस्त्रिकारजोहरणादिसाधुस्वरूप: प्रकटिताऽवधूतरूपश्चरिष्यामीत्यभिग्रहवान् स सिद्धसेनो गच्छचिन्तां हित्वा ग्रामादिषु विहरन् द्वादशे वर्षे श्रीमदुज्जयिन्यां महाकालसंज्ञमहेश्वरप्रासादमधितस्थौ। तत्रापि महत्कौतुकदिक्षाऽर्थमागतस्य पौरवर्गस्य साक्षिकं श्रीकल्याणमन्दिरमहास्तोत्रविधापनेन प्रादुर्भूतं श्रीपार्श्वनाथबिम्बमालोक्य विस्मितोऽर्हन् देवः सत्य इति मन्यमानः श्रीविक्रमादित्यभूपः श्रीसिद्धसेनगुरोरभ्यर्णे देवतत्त्वशुद्धिं विधत्ते स्म।
अथ मुकुलितकरकमलो राजाऽर्हन्तमिति स्तौति स्मप्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्न, वदनकमलमङ्कः कामिनीसङ्गशून्यः ।
करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ॥ २१ ।। देवोऽनेकभवार्जितोर्जितमहापापप्रदीपाऽनिलो, देवः सिद्धिवधूविशालहृदयाऽलङ्कारहारोपमः । देवोऽष्टादशदोषसिन्धुरघटानिर्भेदपञ्चाननो, भव्यानां विदधातु वाञ्छितफलं श्रीपार्श्वनाथश्चिरम् ॥२२ ।। मूर्तिस्ते जगतां महार्त्तिशमनी मूर्तिर्जनानन्दिनी, मूर्तिर्वाञ्छितदानकल्पलतिका मूर्तिः सुधास्यन्दिनी।। संसाराम्बुनिधिं तरीतुमनसां मूर्तिर्दृढा नौरियं, मूर्तिर्नेत्रपथं गता जिनपते! किं किं न कर्तुं क्षमा ॥ २३ ॥ ये मूर्तिं तव पश्यत: शुभमयीं ते लोचने लोचने, या ते वक्ति गुणावलिं निरुपमां सा भारती भारती।। या ते न्यञ्चति पादयोर्वरदयोः सा कन्धरा कन्धरा । यत्ते ध्यायति नाथ वृत्तमनघं तन्मानसं मानसम् ॥ २४ ॥ यक्ष्माधुग्ररुजां विकारनिकरध्वंसैकधन्वन्तरिः, फुल्लबालतमालतालफलिनीनीलोत्पलश्यामलः । अस्ति स्वस्तिमनोमनोरथमहादानैकदेवद्रुमः, प्रत्यग्रः प्रथितः प्रियः प्रकटितः पार्श्वप्रभुः पातु वः ॥२५ ।। दर्शनाद् दुरितध्वंसी, वन्दनाद्वाञ्छितप्रदः। पूजनात्पूरकः श्रीणां, जिनः साक्षात्सुरद्रुमः ॥ २६॥ १. PD । पानलो-मु. सकलार्हत्स्तोत्रे च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380