Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 324
________________ २७९ तरङ्ग १०/ कथा २४३ एवमत्यन्तमनोज्ञ-स्फारार्थैरष्टोत्तरशतनमस्कारैः श्रीपार्श्वनाथमभिष्टत्य प्रत्यहं भगवद्भक्तिभावितमनाः प्रमनाः श्रीविक्रमादित्यो राजाऽर्हत्पूजा-तीर्थयात्रा-रथयात्रादिधर्मकर्मकर्मठश्चिरं क्षोणी पाति स्म। इतश्च कवित्वशक्तिचमत्कृतेन राज्ञाऽतीवसंस्तुताः श्रीसिद्धसेनसूरयोऽपि पाराञ्चितप्रायश्चित्तान्ते द्वादशवर्षान्ते निजगच्छभारमङ्गीकृत्य मौक्तिकैः कामिनीकुचस्थलमिव स्वचरणरेणुभिः क्षोणीतलं भूषयन्तो मालवेष्वोङ्कारं नगरं प्रापुः। ___ तत्राऽर्हद्भक्तैः श्रावकैः सूरिर्विज्ञप्तः, हे भगवन् ! वयमत्र वसामः, परमिहाऽऽर्हतं चैत्यं नास्ति, यतो गाढमिथ्यात्वमूढा भरटका इहाऽर्हत्प्रासादं कर्तुमस्माकं न प्रयच्छन्ति। आर्हतमनोमनोरथलतावितानसेचनकधाराधरस्त्वमेवात्राऽर्थे बलवत्तरः, तेन तथा कुरु? यथाऽत्रत्यतन्महेशप्रासादतः प्रोत्तुङ्गजिनचैत्यं कुर्महे। इति तेषां विज्ञप्तिमवधार्य स सर्वज्ञशासनोन्नतिपद्मिनीपद्मिनीप्राणनाथः सूरीन्द्रश्चतुःश्लोकी निर्माय श्रीमदुज्जयिनीमागत्य सकलक्ष्मामण्डलाऽऽखण्डलस्य श्रीविक्रमराजस्य सभाद्वारमेत्य च द्वा:स्थेन राजानमचीकथत् । तेन द्वा:स्थेनापि सूरिदत्तोऽयं श्लोको राज्ञे वितीर्णः, तथाहिदिदृक्षुर्भिक्षुरायात-स्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोको, यद्वागच्छति गच्छति ? ॥ २७ ॥ इमं श्लोकमवगम्य तद्बन्धचारुत्व-शब्दचारुत्वचमत्कृतो राजेति प्रतिश्लोकमचीकथत्, तथाहिदीयतां दशलक्षाणि, शासनानि चतुर्दश। हस्तन्यस्तचतुःश्लोको, यद्वागच्छतु गच्छतु ॥ २८॥ सूरिणाप्यस्य प्रतिश्लोकस्यार्थं ज्ञात्वा द्वा:स्थद्वारेण पुनरभाणि, भिक्षुः क्षमापदर्शनमेव समीहते, नाऽर्थमिति । ततो राज्ञाऽऽहूताः सामोदां सरोजिनीं राजहंसा इव सूरयो राजसभां भूषयन्ति स्म। अथ राज्ञोपलक्ष्योक्ताश्च ते सूरयः, हे पूज्या: ! कथमहमद्य चिरेण स्वदृशा सम्भावितः? कार्यवशादित्यभिधाय श्लोकचतुष्टयं शृणु चेति राजानमभिदधिरे सूरयः । अथ राज्ञि शृण्वति पूर्वादीनां चतसृणां दिशामनुक्रमेण राज्ञः पुरो भूत्वा सूरयश्चतुरोऽपि श्लोकान् पठन्ति स्म । तथाहिअपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः । मार्गणौघः समभ्येति, गुणो याति दिगन्तरम् ॥ २९ ॥ सरस्वती स्थिता वक्त्रे, लक्ष्मी: करसरोरुहे । कीर्तिः किं कुपिता राजन्, येन देशान्तरे गता ? ॥३०॥ कीर्तिस्ते जातजाड्येव, चतुरम्भोधिमज्जनात्। आतपाय धरानाथ, गता मार्तण्डमण्डलम् ॥ ३१ ॥ अथवा पाठान्तरेणाऽत्रासौ श्लोक:आहते तव नि:स्वाने, स्फुटितं रिपुहृद्घटैः । गलितं तत्प्रियानेत्रै, राजंश्चित्रमिदं महत् ॥३२॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे जनैः । नाऽरयो लेभिरे पृष्ठिं, न वक्षः परयोषितः ॥ ३३ ॥ इति श्रुत्वा प्रकामं मुदितेन राजकैकेन श्लोकेनैकैकस्या दिशो राज्ये दीयमाने गुरवोऽभ्यधुःशयीमहि महीपीठे, जीर्णवासो वसीमहि। भुञ्जीमहि वयं भैक्ष्यं, कुर्वीमहि किमीश्वरीम् ॥ ३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380