________________
२७९
तरङ्ग १०/ कथा २४३ एवमत्यन्तमनोज्ञ-स्फारार्थैरष्टोत्तरशतनमस्कारैः श्रीपार्श्वनाथमभिष्टत्य प्रत्यहं भगवद्भक्तिभावितमनाः प्रमनाः श्रीविक्रमादित्यो राजाऽर्हत्पूजा-तीर्थयात्रा-रथयात्रादिधर्मकर्मकर्मठश्चिरं क्षोणी पाति स्म। इतश्च कवित्वशक्तिचमत्कृतेन राज्ञाऽतीवसंस्तुताः श्रीसिद्धसेनसूरयोऽपि पाराञ्चितप्रायश्चित्तान्ते द्वादशवर्षान्ते निजगच्छभारमङ्गीकृत्य मौक्तिकैः कामिनीकुचस्थलमिव स्वचरणरेणुभिः क्षोणीतलं भूषयन्तो मालवेष्वोङ्कारं नगरं प्रापुः।
___ तत्राऽर्हद्भक्तैः श्रावकैः सूरिर्विज्ञप्तः, हे भगवन् ! वयमत्र वसामः, परमिहाऽऽर्हतं चैत्यं नास्ति, यतो गाढमिथ्यात्वमूढा भरटका इहाऽर्हत्प्रासादं कर्तुमस्माकं न प्रयच्छन्ति। आर्हतमनोमनोरथलतावितानसेचनकधाराधरस्त्वमेवात्राऽर्थे बलवत्तरः, तेन तथा कुरु? यथाऽत्रत्यतन्महेशप्रासादतः प्रोत्तुङ्गजिनचैत्यं कुर्महे। इति तेषां विज्ञप्तिमवधार्य स सर्वज्ञशासनोन्नतिपद्मिनीपद्मिनीप्राणनाथः सूरीन्द्रश्चतुःश्लोकी निर्माय श्रीमदुज्जयिनीमागत्य सकलक्ष्मामण्डलाऽऽखण्डलस्य श्रीविक्रमराजस्य सभाद्वारमेत्य च द्वा:स्थेन राजानमचीकथत् । तेन द्वा:स्थेनापि सूरिदत्तोऽयं श्लोको राज्ञे वितीर्णः, तथाहिदिदृक्षुर्भिक्षुरायात-स्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोको, यद्वागच्छति गच्छति ? ॥ २७ ॥
इमं श्लोकमवगम्य तद्बन्धचारुत्व-शब्दचारुत्वचमत्कृतो राजेति प्रतिश्लोकमचीकथत्, तथाहिदीयतां दशलक्षाणि, शासनानि चतुर्दश। हस्तन्यस्तचतुःश्लोको, यद्वागच्छतु गच्छतु ॥ २८॥
सूरिणाप्यस्य प्रतिश्लोकस्यार्थं ज्ञात्वा द्वा:स्थद्वारेण पुनरभाणि, भिक्षुः क्षमापदर्शनमेव समीहते, नाऽर्थमिति । ततो राज्ञाऽऽहूताः सामोदां सरोजिनीं राजहंसा इव सूरयो राजसभां भूषयन्ति स्म। अथ राज्ञोपलक्ष्योक्ताश्च ते सूरयः, हे पूज्या: ! कथमहमद्य चिरेण स्वदृशा सम्भावितः? कार्यवशादित्यभिधाय श्लोकचतुष्टयं शृणु चेति राजानमभिदधिरे सूरयः । अथ राज्ञि शृण्वति पूर्वादीनां चतसृणां दिशामनुक्रमेण राज्ञः पुरो भूत्वा सूरयश्चतुरोऽपि श्लोकान् पठन्ति स्म । तथाहिअपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः । मार्गणौघः समभ्येति, गुणो याति दिगन्तरम् ॥ २९ ॥ सरस्वती स्थिता वक्त्रे, लक्ष्मी: करसरोरुहे । कीर्तिः किं कुपिता राजन्, येन देशान्तरे गता ? ॥३०॥ कीर्तिस्ते जातजाड्येव, चतुरम्भोधिमज्जनात्। आतपाय धरानाथ, गता मार्तण्डमण्डलम् ॥ ३१ ॥
अथवा पाठान्तरेणाऽत्रासौ श्लोक:आहते तव नि:स्वाने, स्फुटितं रिपुहृद्घटैः । गलितं तत्प्रियानेत्रै, राजंश्चित्रमिदं महत् ॥३२॥ सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे जनैः । नाऽरयो लेभिरे पृष्ठिं, न वक्षः परयोषितः ॥ ३३ ॥
इति श्रुत्वा प्रकामं मुदितेन राजकैकेन श्लोकेनैकैकस्या दिशो राज्ये दीयमाने गुरवोऽभ्यधुःशयीमहि महीपीठे, जीर्णवासो वसीमहि। भुञ्जीमहि वयं भैक्ष्यं, कुर्वीमहि किमीश्वरीम् ॥ ३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org