________________
श्री कथारत्नाकरे
श्री हेमविजयरचिते
एवममीषां गुरूणां निरीहत्वं निरीक्ष्य भृशं सन्तुष्टो राजा व्याजहार, अहो ! अम अखण्डितचारित्रा महानुभावाः, यदमी करि तुरग - कनक- कामिनी-काननादिकेलिकलिते-ऽपि राज्ये विगतस्पृहाः, तेनामी एव गुरवो नत्वन्ये । यतः -
महाव्रतधरा धीरा, भैक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ३५ ॥ [ योग शास्त्रे - २ / ८ ]
२८०
धर्मोऽप्येतदभिहित एव करणीयः, इति तन्निरीहत्वेन सम्यग्देव-गुरु- धर्मरूपां मुक्तिमार्गप्रदीपिकां रत्नत्रयीमादृत्य राजा तेषां सूरीणामुपदेशेनौङ्कारपुरे नगरे प्रोत्तुङ्गमर्हच्चैत्यं कारयित्वा तैरेव गुरुभिस्तत्प्रतिष्ठामचीकरत्। गुरवोऽप्येवमर्हत्प्रवचनप्रभावनां कृत्वाऽनशनेन दिवमलञ्चक्रुः ॥ इति गुरुनिरीहत्वे श्रीसिद्धसेनसूरिश्रीविक्रमादित्यभूपतिकथा ॥ २४३ ॥
॥ २४४ ॥ कैतवे मदिरावेश्याकथा ॥ सदैव सूत्रितपापाssवेशासु वेश्यासु प्रीतिः सतां नोचिता,
कः कोपः कः प्रणयो नटविटहतमस्तकासु वेश्यासु । रजकशीलातलसदृशं यासां जघनं च वदनं च ॥ १॥
अपि च
मनस्यन्यद् वचस्यन्यत्, क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवे ? ॥ [ योगशास्त्रे २ / ८८ ]
किं बहुना ? गणिकानां दम्भो हि दुरुत्तरः । यतः
स्वीकृत्य दम्भमतिदुष्टमरिष्टनिष्ठा, धूर्ता: परान् परमतीनपि वञ्चयन्ति । यन्मृत्युदम्भमधिगम्य विलासवध्वा, नीतो वशं मदिरया मकरन्दनामा ॥ ३ ॥ तथाहि - हर्षपुरे नगरे बहुधन-धान्यादिपरिग्रहेण प्राप्तपरमानन्दस्य श्रीमदानन्दस्य श्रेष्ठनो मकरन्दनामा पुत्रः, एकदा तेन श्रेष्ठिना कनकसेना वृद्धा कुट्टिनी भणिता, हे सुभगे ! मम पुत्रं स्त्रीणां चरित्रे कलासु च निपुणं कुरु - हे श्रेष्ठिन् ! भवतः सुतं सर्वत्र स्त्रीचरित्रे विदग्धं विधास्यामि, परं जीवन्तीनां तासां भेदमसौ ज्ञास्यति, किन्तु मरणदम्भेन ताः स्त्रियो यद्वञ्चनं करिष्यन्ति तन्नाहं वेद्मि तेन मरणदम्भेन कृतं कैतवकौशलमयं न ज्ञास्यतीति प्रतिपाद्य सा तं मकरन्दं द्वादशाऽब्दैः सर्वत्र स्त्रीचरित्रे चतुरं चकार । पण्याङ्गनानां गृहेषु हि चातुर्यमिति नीतिवचनं, यतः - देशाटनं पण्डितमित्रता च, पण्याङ्गना राजसभाप्रवेशः । अनेकशास्त्राऽर्थविचारणं च चातुर्यमूलानि भवन्ति पञ्च ॥ ४ ॥
श्रेष्ठाऽपि तस्यै बहुकनकादिधनदानमदायि । यदि तव पुत्रः क्वापि स्त्रीणां मरणकैतवं विना कपटसङ्कटे पतितोऽनर्थभाक् स्यात् तदा भवद्दत्तं धनं सव्याजं प्रत्यर्पयिष्यामीति प्रतिज्ञां कृत्वा सा स्वं स्थानं ययौ । अथ मकरन्दोऽपि घनं सुवर्णादिधनमादाय व्यापारं विधित्सुः सोपारकपत्तनं प्राप्तः तत्र च स्वसौभाग्यप्राग्भारपराभूतपुरुहूतनितम्बिन्यः प्रभूताः पण्यनितम्बिन्यो वसन्ति स्म । तत्र चैता ब्राह्मण-क्षत्रिय-वैश्य - शूद्रादीनां चतुर्णामपि वर्णानां स्वस्ववर्णवर्तित्वेन भोग्याः, किंच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org