________________
तरङ्ग १० / कथा २४४ या उच्चवर्णा पण्यवर्णिनी धनलोभेन यदि नीचवर्णं नरं सेवते, तदा सा सर्वस्वहरणलक्षणं राजदण्डमर्हति, यदि च यः प्रोच्चवर्णः कामी पुमान् रम्यरूप - लावण्य - तारुण्यादिगुणमूढमना नीचवर्णां गणिकां भजते, तदा सोऽपि तादृशमेव राजदण्डमर्हतीत्येषा चिरकालीना व्यवस्थाऽस्ति । तत्र चाऽस्ति सकलगाणिक्यमाणिक्यं मदिरा नाम पण्यमदिरेक्षणा, रतिरिव कामानन्दविधायिनी सा वसन- कनक- मौक्तिकादिवस्तुग्रहणार्थं मकरन्दस्य हट्टे समायान्ती तेन सह परिचयं प्रणयति स्म । किंचास्या अनिर्वर्ण्यवर्ण - लावण्य- तारुण्य-रूप-र - सौभाग्यादिगुणगणं ज्ञात्वापि स मकरन्दो मुनिरिवैतस्यां विकृतमना मनागपि नासीत् । अथ चैषा दध्यौ, अहोऽहं मन्मथस्य सर्वस्वं यतः -
यतः -
ईर्ष्या कुलस्त्रीषु च नायकस्य, निःशङ्ककेलिर्न पराङ्गनासु ।
वेश्यासु चैतद् द्वितयं प्ररूढं, सर्वस्वमेतास्तदहो स्मरस्य ॥ ५ ॥ किञ्च मदवलोकन- जल्पन - संस्तवन- हसन - गमनैरकामाः साधवोऽपि स्मरातुराः स्युः,
२८१
कुप्यत्पिनाकिनेत्राग्नि-ज्वालाभस्मीकृतः पुरा । उज्जीवितः पुनः कामो, मन्ये वेश्याविलोकितः ॥६॥ असौ तु सामोदां चम्पककलिकां मधुकर इव मां मनसापि नेहते, तदाहमेवाऽऽदावेनं प्रार्थयामि, किञ्च प्रथमप्रार्थनायामस्माकं न मन्दाक्ष्यमिति मत्वा सान्येद्युःस्त्री कान्तं वीक्ष्य नाभिं प्रकटयति मुहुर्विक्षिपन्ती कटाक्षान्, दोर्मूलं दर्शयन्ती रचयति कुसुमापीडमुत्क्षिप्य पाणिम् । निःश्वासस्वेदजृम्भाः श्रयति कुचतटस्स्रंसि वस्त्रं विधत्ते, सोत्कण्ठं वक्ति नीवीं शिथिलयति दशत्योष्ठमङ्गं भनक्ति ॥ ७॥ इति कामशास्त्रोक्तरक्तस्त्रीचिह्नं सृजन्ती सा तं प्रार्थयाञ्चक्रे । तयेत्यभ्यर्थितोऽसौ चिन्तयाञ्चकार धिगेताः, यतः
आनन्दयन्ति युक्त्या ताः, सेविता घ्नन्ति चान्यथा । दुर्विज्ञेयाः प्रकृत्यैव, तस्माद्वेश्या विषोपमाः ॥ ८ ॥ वेश्यासौ मदनज्वाला, रूपेन्धनसमन्विता । कामिभिर्यत्र हूयन्ते, यौवनानि धनानि च ॥ ९ ॥
कुष्ठिनोऽपि स्मरसमान् पश्यन्तीं धनकाङ्क्षया ।
तन्वन्तीं कृत्रिमस्नेहं, निःस्नेहां गणिकां त्यजेत् ॥ १० ॥ [ योगशास्त्रे २ / ९२] एवं वेश्यासु सर्वथा विरक्तचित्तं तं मत्वा कपटपटीयसी सा तमाह स्म, हे प्राणनाथ ! यदि त्वं मां नाऽङ्गीकरिष्यसि तदाऽहमवश्यमग्नौ प्रवेशं करिष्यामीत्यभिधाय मायाप्रपञ्चचतुरा मकरन्दप्रभृतिपौरसाक्षिकं मामसौ मकरन्दो न भजते, तेनाहमेवं साहसं विदधामीत्यभिधाय ज्वालापटलमालिनि ज्वलने प्रविश्य सा मध्ये विहितसुरङ्गाप्रयोगेण स्वगृहमेत्य भूमिगृहे सुखेनाऽस्थात् ।
धिगेनं स्त्रीहत्याकारिणं दुरन्तदुरितधारिणमिति नागरैर्निन्दितो मकरन्दोऽपि स्वस्थानमेत्येत दध्यौ, हा! मया पापिना शोभनं नाऽकारि, यतः स्त्रीहत्यापातकमलिनात्मनो ममावश्यमधोगतौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org