________________
२८२
श्री कथारत्नाकरे
श्री हेमविजयरचिते गमनं, तेन यदि चाऽथ मदिरा मिलति तदाहमवश्यं तद्वचः करोमीति। अथ यदा मदिराप्रेमपूर्णमनाः स तद्वेश्मनि समेति तदा निष्कृतिकृत्तिनी तदम्बा रोदति। यतः
प्रकटयति हृदयदाहं, पुरुषः प्रायेण सज्जने मिलिते ।
ग्रावा दग्धः सलिले, पतितः पुनरुद्वमत्यग्निम् ॥ ११ ॥ सोऽपीति ब्रवीति, हे अम्ब! यदि कथञ्चनापि मम मदिरा मिलति, तदाऽहमवश्यं तया सह विषयसुखमनुभवामीति पुन: पुनस्तद्वचः श्रुत्वाऽवगतसम्यक्तन्निश्चया सा स्माह, हे स्वामिन् ! स्वयमागतायां मत्सुतायां यमदेवो विशेषतस्तुतोष, तेनाद्य कल्ये वा मम पुत्री समेष्यतीति केनापि महानिमित्तज्ञेन कथितमस्तीति। अथ द्वादशेऽहनि गृहमागतं मकरन्दं प्रति कुट्टिनी स्माह, हे सुभग ! मदिरा समागता, क्वास्ति वास्तीति वादिनि तस्मिन् यथोचितरचितषोडशशृङ्गारा पार्वतीव महेश्वरप्रिया रम्भेव विबुधाऽधीशतुष्टिदायिनी पद्मेव पुरुषोत्तमवल्लभा अभ्राद्विद्युदिव सा भूमिगृहादाविरासीत् । हे स्वामिन् ! स्वयमागतां मां धर्मराजो निजां दुहितरमिव बहु मन्यते स्म, तेनैतानि कनक-मणिमयानि आभरणानि, दिव्यानि एतानि च वसनानि वितीर्णानीति वादिनी सा भूयो भूयस्तत्पादौ प्राणमत् । सोऽपि सद्यः प्रादुर्भूतनूतननिबिडतरस्नेहपाशकीलित इव प्रेमदृशा पश्यन् रत्या स्मर इव तया समं रमते स्म। यतः
विरहो वसन्तमासो, नवनेहो पढमजुव्वणारंभो ।
पंचमगीयस्स झूणी, पंचग्गी को जणो सहइ ॥१२॥ क्रमेण मायया तन्मयेव सा तदीयं धन-वसनादि सर्वं जग्राह। ततः सर्वथागृहीतसर्वस्वोऽसौ तया गृहानिष्कासितः स्वगृहमाययौ। अवगतपुत्रस्वरूपेण पित्रा सा कनकसेना कुट्टिनी भृशमुपालब्धा प्रोवाच, हे श्रेष्ठिन् ! मरणकैतवेन तयाऽसौ वञ्चितः, तेन मदुक्तं त्वं स्मर, किं करोमि? स्त्रीणां मरणदम्भविलसितं दुरवबोधं, तथापि तव लज्जया तव धनं तस्याः पार्वादानेष्यामीति प्रतिपद्य सा किञ्चित्स्तोकं धनं दत्त्वा मकरन्दं पुरत एव सोपारके प्राहिणोत् । तदन चाण्डालवेषौ करगहीतकटोलतालौ चाण्डालभाषया च गानं सजन्तौ तौ द्वावपि दम्पतीव मिथो विनयेन गच्छन्तौ प्रभाते मदिराद्वारे दन्तधावनं विदधतो मकरन्दस्य पुरस्तस्थतुः । सोऽपि मम पितरौ समेताविति पुनः पुनर्वदन् सहसोत्थाय तयोः परिष्वङ्गं विधत्ते स्म। विद्युत्पातादिव तत्परिष्वङ्गविलोकनाद्भीता मदिरा दध्यौ, हा! हा! पापिनाऽमुनाऽहं भृशं विगोपिता, अथ यदि राजा ज्ञास्यति तदा सर्वस्वहरणदण्डेन विडम्ब्य मां संमवर्तिनोऽभ्यागता करिष्यतीति मत्वा सा तावप्राक्षीत्, कौ युवामयं च कः? तदा सद्य एव प्राक्कृतसङ्केतो मकरन्दोऽभिदधे, एतौ मम माता-पितरावहं चानयोरङ्गज इत्याकर्ण्य भृशं भीतां तां पितराविव मकरन्दमातापितरौ करे गृहीत्वोचतुः, हे पीतयौवनोन्मादमदिरे मदिरे! यद्यात्मनः कल्याणमीहसे तदाऽस्मत्पुत्रसत्कं पूर्वगृहीतं धनादिकं सत्वरमर्पय, न चेत्तदा राज्ञः पुरस्तात्सर्वमेनं व्यतिकरं व्याकरिष्यावः, इति निशम्य सर्वस्वनाशविधुरा मदिरा द्रुतमुद्धारके गृहीतमिव सव्याजं तस्य धनं वितरति स्म। अथ १. कटोल-चाण्डाल । तालकांस्यवाद्य । २. यमस्याभ्यागता-मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org