________________
२७६
श्री कथारत्नाकरे
श्री हेमविजयरचिते हे देव! बहवो धर्मिणः पापिनोऽल्पीयांसश्च, कथमेतदिति गाढमाग्रहेण भणितो मन्त्री श्वेतं श्यामं चेति चैत्यद्वयं पुराबहिरचीकरत्। धर्मवद्भिर्धवले प्रासादे, पापवद्भिश्च श्यामले प्रासादे समागन्तव्यमिति पडहोद्घोषणां सकलेऽपि पुरे त्रिक-चत्वर-राजमार्ग-महापथादिष्वभयो मन्त्री कारयति स्म। अथ स्वस्वसम्पदनुसारेण विहितवेषा अशेषा अपि पौरा धवलं प्रासादमुपेयिवांसः, द्वौ मातुल-भागिनेयौ तु श्यामलं प्रासादं समेतौ। अथ स्वपरिवारपरिवृतोऽभयेन मन्त्रिणाऽनुगम्यमानो राजा तत्र प्रासादपार्श्वे प्राप्तः, सकलमपि पौरवर्गं धवले प्रासादे दृष्ट्वाऽभाषिष्ट, भोः पौरा: ! कथं सर्वेऽपि यूयं श्वेते चैत्ये प्राप्ताः ? अथ तेऽभ्यधुः, हे राजेन्द्र ! स्वस्वकुलक्रमागताऽऽचारकरणेन वयं सम्यग्धर्मिणः, तेन चाऽत्र प्रासादे समेताः स्मः। अहो! प्राणातिपात-मृषावादा-ऽदत्तादानपरदारागमन-द्यूतादिसप्तव्यसनाद्यशेषदोषखानयः सर्वेऽप्यमी धर्मवन्तः।
__एवं च समीचीनमेवाऽजनि वचनमभयस्य मन्त्रिण इति मत्वा राजा श्यामप्रासादे प्राप्तः, तत्र च तौ द्वावेव मातुल-भागिनेयौ दृष्टौ पृष्टौ च, कथं युवामत्र चैत्ये प्राप्तौ? ताभ्यामुक्तं हे स्वामिन्नाऽऽवाभ्यां पुरा श्रीसुधर्मस्वामिनोऽभ्यणे सुराया मांसस्य चेति पृथक् पृथक् नियमावङ्गीकृतौ, किंत्वावयोस्तयोर्नियमयोर्भङ्गोऽभूत, तेनाऽऽवां महापापिनौ, यतः
1 [वरमग्गिंमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं ।
मा गहियव्वयभंगो, सया अखंडियसीलस्स ॥ १ ॥] व्रतलोपी महापापी अतः कारणादावामिह प्रासादे प्रविष्टौ। अथाऽभयो बभाषे, हे देव! परमार्थतस्तु धर्मिणः स्तोका इमौ मातुल-भागिनेयाविवेति मन्त्रिवचनं समीचीनं मन्यमानाः सर्वेऽपि पौरा राजा च स्वं स्वं स्थानं यान्ति स्म। ॥ इत्यभयमन्त्रिकारितश्वेत-श्यामचैत्यकथा ॥२४२॥
॥ २४३॥ गुरुनिरीहत्वे श्रीसिद्धसेनसूरि-श्रीविक्रमादित्यभूपतिकथा ॥
सन्तोषो हि नराऽमरादिसंवननौषधं, यतःसन्निधौ निधयस्तस्य, कामगव्यनुगामिनी। अमरा: किङ्करायन्ते, सन्तोषो यस्य भूषणम् ॥ १ ॥
[योगशास्त्रे २/११५] किं बहुना? सन्तोषजुषां सर्वं समीचीनमेव, यतःवह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्, मेरु: स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते। व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते, यत्स्वान्तेऽखिललोकवल्लभतमः सन्तोषपोष: सखे !॥२॥
सन्तोषवतां सन्तोषोऽन्येषामपि धर्मप्राप्तिहेतुः, यतःनिरीहता संयमिनां प्रकामं, धर्माप्तिहेतुः किल कस्य न स्यात् ? ।
श्राद्धोऽभवद्विक्रमराड् निरीहं, निरीक्ष्य राज्येऽपि हि सिद्धसेनम् ॥ ३॥
तथाहि विद्याधरगच्छे श्रीपादलिप्ताचार्यसन्ताने श्रीस्कन्दिलाचार्यपार्श्वे गृहीतदीक्षो वृद्धो मुकुन्दाभिधो विप्रो बाढस्वरेण रात्रौ भणन् गुरुणेति निषिद्धः, हे वत्स! आत्मनां रात्रौ बाढस्वरेण भणनं नोचितम्। अथ स दिवसेऽपि बाढस्वरेण भणन् श्रावकैरभाणि, किमसौ प्रवयाः पठित्वा १. तुला - प्रभावकचरित्रे, पृ. ५४, प्रबन्धकोशे पृ. १५ प्रबन्धचिन्तामणौ विक्रमार्कप्रबन्धे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org