SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ तरङ्ग १० / कथा २४० / २४२ ॥ २४१ ॥ कदाचिद् बालस्यापि कौशलमित्यर्थे श्रेष्ठिसुमतिकुमारकथा ॥ अवसरे वणिक्पुत्र-पुत्रपत्नी - प्रेष्यादयोऽपि प्रतिबोधाय भवन्ति, यतः - घीयांसोऽपि बोधाय भवन्ति महतामपि । पित्रवज्ञापरो वप्ता, सूनुना बोधितो यतः ॥ १ ॥ तथाहि--कम्बोडग्रामे गुणाऽऽह्वो वणिग्वरो व्यवहारी, तस्य श्रीमतीकुक्षिसम्भवः सुराख्योऽङ्गजन्मा, स च भाग्योदयतः श्रीमानासीत् परं पितरि प्रीतिमान्न । तस्य च सुमतिनामा पुत्रः, स च बाल्यादपि यथार्थनामा विनीतः सौभाग्यवांश्च । एकदा कलिकाल इव कराले शीतकाले प्रसर्पति शीतेनाऽऽर्तो गुणश्रेष्ठी पुत्रं प्रति शीतत्राणपटमयाचिष्ट, हे पुत्र ! शीतेन ममाऽसवो यान्ति तेन तत्त्राणार्थं मम वस्त्रं प्रयच्छ । अनाकर्णितमिव पितृवचनं तन्वन् स बहु बहु तेन वृद्धेन पित्रा भणितः स्वसुतं सुमतिमूचे, हे पुत्र! स्वपितामहस्य सा जीर्णयवनिका देया, एतदाकर्ण्य मतिमान् सुमतिर्दध्यौ, अहो ! धिक् पितुः कौशलं, यः स्वपितर्यपि न प्रणयी, तेन मम पितरं प्रतिबोधयामीति मत्वा पितामहाय तदर्थं ददौ तदर्थं च रक्षितवान् । तदर्थेनाऽहृतशीतः स श्रेष्ठी पुनरपि वस्त्रार्थं पुत्रं प्राह, हे पुत्र ! वृद्धं मां शीतमतिशयेन बाधते, इत्यभिहितः स पुनरपि पुत्रं प्रोचे, हे सुमते ! किं त्वया पितामहाय वस्त्रं न दत्तं ? येन सोऽभीक्ष्णमम्बरमीहते । अथ सुमतिराह - हे तात! यवनिकाऽर्थं मया तस्मै दत्तमस्ति, तर्हि अर्धं त्वया किमर्थं रक्षितमस्तीति भणितः सुमतिब्रूते स्म हे तात! अग्रे वार्धकवतां भवतां कृते तदर्थं मया रक्षितमस्ति यतो यादृशी स्वपितुर्भक्तिर्भवद्भिः क्रियते तादृशी भवतामपि मया विधास्यते, यतः - २७५ उप्यते यादृशं बीजं, लूयते तादृशं फलम् । सर्वत्र कृषिकर्मादौ, स्पष्टमेतन्निदर्शनम् ॥ १ ॥ अहो ! लघुनापि सूनुना सारथिना रथ इवाहमुन्मार्गं व्रजन्मार्गं नीत इति मत्वा सर्वत्र भोजन-वसन-स्नान-पानादौ पितुरुपचर्यां विधाय स सुरो व्रतमादाय च दिवं ययौ ॥ इति कदाचिद् बालस्यापि कौशलमित्यर्थे श्रेष्ठिसुमतिकुमारकथा ॥ २४९॥ ॥ २४२ ॥ अभयमन्त्रिकारित-श्वेतश्यामचैत्यकथा ॥ प्रायो हि जगति पापिनामेव बाहुल्यं, यतः सर्वत्राप्यधिगम्यन्ते, पापिनो नेतरे जनाः । भूयांसो वायसाः सन्ति, स्तोका यच्चाषपक्षिणः ॥ १॥ अपि च Jain Education International धर्मिभ्यः सन्ति भूयांसः, प्रायशः पापिनो नराः । अत्राऽभयकृत श्वेत-श्यामचैत्यकथा स्फुटम् ॥ २ ॥ तथाहि—श्रीराजगृहे नगरे श्रेणिकराजा, मन्त्री चाऽभयकुमारः । एकदा श्रेष्ठि-सेनापतिसार्थवाह - दूत-दौवारिक-राज- युवराजा - ऽमात्य - महामात्य - किङ्करप्रभृतिसकललोकसनाथायां श्री श्रेणिकराजपर्षदि धर्मिणः पापिनो वा बहव इत्येकदा धर्मा - ऽधर्मविवादे जायमाने सर्वैरपि सभासद्भिः पापिनो बहवो, धर्मिणश्च स्वल्पा इत्यभिहिते सनिर्बन्धं राज्ञा पृष्टोऽभयो मन्त्री भणति स्म । For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy