________________
तरङ्ग १० / कथा २४३
मुशलं पुष्पापयिष्यति ? इति श्रावकोपहासेन भृशं खेदमापन्नो मुकुन्दो मुनिर्जेनौकसि बहुभिस्तपोभिः सरस्वतीमारराध । सन्तुष्टा सा सकलविद्यास्तस्मै दत्त्वा तिरोदधे । लब्धविद्यावरः सोऽपि सङ्घसाक्षिकं गुरोरभ्यर्णे [समागत्येदं श्लोकमपाठीत्-]
अस्मादृशा अपि जडा, भारति ! त्वत्प्रसादतः । भवेयुर्वादिनः प्राज्ञा, मुशलं पुष्प्यतां तदा ॥ ४ ॥ इति श्लोकमन्त्रेण स मुशलं पुष्पापयामास । स्कन्धस्थेन तेनैव मुशलेन स सर्वत्र ग्रामादौ भ्रमति भणति चेति
पन्नमवलंबिअं तह, जो जंपइ फुल्लए न मुसलमिह ।
तमहं निराकरिता, फुल्लइ मुसलं ति ठावेमि ॥ ५ ॥ मद्गोः शृङ्गं शक्रयष्टिप्रमाणं, शीतो वह्निर्मारुतो निष्प्रकम्पः । यस्मै यद्वा रोचते तन्न किञ्चिद्, वृद्धो वादी भाषते कः किमाह ॥ ६॥ अप्रतिमल्लो वादी स वृद्धवादी श्रीस्कन्दिलाचार्यपूज्यैः स्वपदे स्थापितः । इतश्चोज्जयिन्यांअवलोअणे सहस्सं, आलावे चेव दससहस्साइं ।
हसिऊण देइ लक्खं, परिओसे विक्कमो कोडिं ॥ ७ ॥
२७७
इति ख्यातदानगुणस्य विक्रमादित्यस्य राज्ये कात्यायनगोत्राऽवतंसस्य श्रीदेवर्षिविप्रस्य देवसिकाकुक्षिसम्भवः सिद्धसेनः पुत्रः, सुराचार्यस्येव तस्य प्रज्ञा विश्वाऽतिशायिनी, सतां प्रतिभायाः प्रमाणं नाऽस्ति यतः -
मिता भूः पत्यापां स च पतिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ८ ॥
यो मां वादे जयेत्तस्याऽहमनुचरः शिष्यो भविष्यामीति प्रतिज्ञां वहन् सिद्धसेनो वादे सर्वत्राऽप्यप्रतिहतान् श्रीवृद्धवादिसूरीनाकर्ण्य तत्संमुखं धावति स्म । क्रमेण श्वेताऽऽतपत्रछत्रोपशोभितः सुखासनाऽऽरूढः स भृगुपुरङ्गतो वादार्थं वृद्धवादिसूरीनूचे, एवमस्तु परं चाऽत्र के सभ्या ? इति सूरिभिरभिहिते सिद्धसेनस्तत्रैव नगरगोचरे गोपदारकान् सभ्यान् विधाय कर्कशतरतर्कवादेनाऽनल्पं जल्पं कुरुते स्म । ततः क्रमेणाऽस्मिन् स्थिते गोपैरभाणि अहो ! असौ वाचाटः किमपि न वेत्ति, केवलं कासर इव पूत्कारं कुर्वाणः कर्णौ पीडयति, तेनेमं धिग् धिग् । हे वृद्ध ! त्वं ब्रूहि, सुखयाऽस्माकं कर्णौ, अथाऽवसरज्ञः श्रीवृद्धवादिसूरिः कच्छां दृढां बद्धवा झीमिणीछन्दसा पठति नृत्यति च, तथाहि
नवि मारीयें नवि चोरीयें, परदारगमण निवारीयें । थोवुं थोवुं देइयें, टगमग सरगें जाइएं ॥९॥ कालो कंबल अनुनी चाटु, छासिहिं भरिओ देव पाटु । अइवड पडीओ नीलइ झाडी, अवर किसर गह सिंगु निलाडी ॥ १० ॥
गहुँ गोर गोरडी, गज गुणिअण ने गांन । छए गगा जो इहां मले, तो क्युं सरगविमान ॥ ११ ॥ उन्नु ! अन्न ने घृत घणुं, सारुं सरस पशाक। जीमंतां जोई करी, सरग नमाडुं नाक ॥ १२॥ काली काठी कूतरा, कामणीकूचकपास। कूट्या पीड्या आहण्या, पील्या पींज्या खास ॥ १३ ॥ चूडो चमरी चुंदडी, चोली चरणुं चीर । छ चच्चें सोहे सदा, सोहवि-तणुं शरीर ॥ १४ ॥ १. छासिहिं खालड्डु भरिउ नि पाटु इति प्रवन्धकोशे पृ. १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org