Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२६९
तरङ्ग १०/ कथा २३६/२३७ सपल्या प्राणप्रियो देवकुमारतुल्यो मम सुतो निजघ्ने, इत्याकाऽऽगता लोका धिक् त्वामधर्मकर्मकारिणी बालमारिणी सततदुराचारिणी कुलकलङ्कविस्तारिणीमिति तां पुण्यवतीं तर्जयन्ति स्म। तथा तथा स्वैरिण्यपि स्वां स्त्रीचरित्रकलां मञ्जुलां मन्यमानाऽतिशायिरोदनाऽऽक्रन्दन-निपतन-विलपन-मूर्च्छन-दैवोपालम्भदानाऽऽदिप्रभूतदुःखचेष्टां कुर्वाणा स्वं मूर्धानं हृदयं च पाणिभ्यां युगपन्निजधान। अथ च ते उभे अपि मिथः कलहं कुर्वाणे प्रातः पुराणपुरे रत्नसारस्य श्रेष्ठिनो गृहमागते। सम्यगवगततच्चरित्रो धनवसुरपि स्वपितुायकरणकौशलं जिज्ञासुः स्वगृहमाययौ।
___ तदा च बाढं विवदमानयोरनयोर्दुरवबोधं विवादं पश्यति पौरव , पुत्रेऽपि च पुरस्तस्थुषि श्रेष्ठ्यभाषिष्ट - हे भद्रे! युवयोर्मध्याद्या काचिद्वस्त्राणि हित्वा यथाजाता भूत्वा महान्तमेनं न्यग्रोधपादपं त्रि:प्रदक्षिणीकरोति सा निर्दोषा, अन्या च सदोषा बालहत्याविधायिनी, इति श्रेष्ठिवचः श्रुत्वा पुण्यवती प्राह, हे तात! बालहत्यापातकं ममाऽस्तु, अहं पापिनी, मया दुराचारिण्या महदकृत्यमेतदकारि, तेनाऽहं निग्रहमर्हामि, मम च राजदण्डो विधीयताम्, एतत्सर्वमस्तु परमहं स्त्रीणां भृशमनुचितमेतत्कर्म न करिष्यामीत्यभिधाय स्थितायां तस्यां द्वितीया कैतवेन विलापं कृतवती धनवती स्माऽऽह, हे तात! त्रिःप्रदक्षिणाप्रदानमास्तां किन्त्वेकविंशतिशो न्यग्रोधमिममहं प्रदक्षिणीकरोमि, का भीतिनिर्दोषाया ममेति प्रतिपाद्य सद्य एव तथैव विधातुमुद्यतां तामियमेव शिशुवधविधायिनीति श्रेष्ठी निरणैषीत् । धनवसुरपि यथाभूतं सद्भूतमेनं न्यायं कुर्वाणं पितरं निरीक्ष्य मुदमधात्। ॥ इति न्यायनिपुणतायां रत्नसारश्रेष्ठिकथा ॥ २३६॥
॥ २३७॥ धर्मतो जयाधिगमे सुरूपाश्रेष्ठिनीकथा॥ धर्मादेव जयः, सदा यतः
जयसिरिवंछियसुहए, अणिट्ठहरणे तिवग्गसारंमि ।
इहपरलोगहियढे, सम्मं धम्ममि उजमह ॥ १ ॥ अपि चप्रायः पुण्यवतामेव, जय: कीर्तिमयः सखे!। तैलान्त:पतितस्फार-रत्नहारकथा यथा ॥ २ ॥
तथाहि-समिआणदुर्गपरिसरे महेवाननगरे सुरत्राणश्रेष्ठिनो धनश्रीगेहिनी, सुरूपा नाम च तस्या वयस्या। अन्यदा सर्वदा सुकृतस्वरूपायां तस्यां सुरूपायां धनश्रीवेश्मनि सखीस्नेहाऽऽलापार्थं समेतायां भित्तिकीलके लम्बितोऽधस्तात् स्थिततैलपात्रः सपादलक्षकनकमूल्यो द्वात्रिंशद्रनैर्निर्मितो हारो बलिना महताऽऽखुना कृत्तस्तत्तैलाऽन्तय॑पतत् । निर्विकल्पा सुरूपा स्वगृहमगात् । धनश्रीरपि तत्र तं हारमपश्यन्तीति दध्यौ, नूनं मदीयं हारं सुरूपा जग्राह।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380