Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
तरङ्ग १०/ कथा २३८/२३९
२७१ यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं, तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ च नाऽतोऽधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः,
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ ३॥ तेन पुरुषोत्तमेन पुनः पुनः कथनेन तुष्टो भगवांस्तेषां प्रत्येकमेकैकं वरमिति वरत्रयं वितीर्णवान्। अथ सा विप्रपत्नी श्यामा स्थूलोदरी दन्तुरा लम्बोष्ठी बहुपतितपयोधरा काककटुस्वरा विषममुखी दुःस्पर्शकरा कलिकालभूपालस्य पट्टराज्ञीव प्रकामं कुरूपेति रूपदुःखेन पराभूता स्वेनैकेन वरेण परमेश्वरस्य पुरो रूपसौभाग्यमयाचिष्ट ।
__ अथ तत्कालमेव भगवतः प्रसादात्सा सुरूपा जाता। वरीयस्तरवसनां पक्वदाडिमबीजोपमदशनां प्रोत्तुङ्गपीनपयोधरां प्रत्यग्रप्रवालजित्वराऽधरां प्रकामोत्तुङ्गनासावंशां श्रवणयुगलधृष्टांऽसदेशां स्मेरसरोजमञ्जुलकरचरणां दिव्याऽऽभरणां कलकण्ठकमनीयस्वरां सर्वावयवबन्धुरां पूर्णपार्वणेन्दुवदनां चकितमृगशावनयनां तप्तचारुचामीकरवपुर्वर्णां जिह्वापराभूतनवीनचूतपर्णा लक्ष्मीमिव पुरुषोत्तमप्रियां, पौलोमीमिव विबुधाऽधिराजवल्लभां, पार्वतीमिव सदैव सर्वज्ञप्रणयिनी, रतिमिव कामानन्दविधायिनी, सावित्रीमिव प्रीतलोकेशां, रोहिणीमिव द्विजेशसुखदायिनी, रत्नादेवीमिव मित्रप्रमोदपटीयसी, रम्भामिव सुमनोविलासिनीं तां विलोक्य मृगयार्थं वने भ्रमन् कोऽपि राजपुत्रस्तां जहे।
तद्वियोगातौ तौ पितापुत्रौ भृशमशर्म लभेते स्म । अथ स द्विजस्तां तादृशीं राजसूनुना सह रममाणामालोक्य कुपितः स्वार्थध्वंसविधायिनी तां स्वेनैकेन वरेण ग्रामसूकरी चकार। अथ सा प्रत्यहं पौरपुरीषपूरपूर्णवदना बाष्पपटलकईमितभूभागा भृशं शोकाऽऽकुला स्वपुत्राग्रे समेत्य रुदति स्म। सोऽपि प्रकामं पीडातुरां सकललोकनिन्दासमुद्भूताऽशर्मकातरां स्वां मातरं विलोक्य स्वेनैकेन वरेण पूर्वस्वरूपां कुरूपामेव तां विनिर्ममे। इति ते त्रयोऽपि तादृशा एव तस्थिवांसः। ॥ इति ललाटलिखितादधिकं जीवो नाऽऽप्नोतीत्यर्थे पितापुत्रपत्नीकथा ॥ २३८॥
॥२३९॥ सङ्गप्राधान्ये प्रजापालनूपकथा॥ . संवासादेव हि नृणामधम-मध्यमोत्तमगुणाः सञ्जायन्ते, यतःसन्तप्ताऽयसि संस्थितस्य पयसो नामापि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते। स्वातौ सागरशुक्तिसम्पुटगतं तज्जायते मौक्तिकं, प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥१॥
अपि चयादृशैः क्रियते वास-स्तादृशोऽभ्याससङ्गमः । संवसन् सुदृशा सार्धं, योगी यत्स्मरवानभूत् ॥ २॥
तथाहि- रत्नपुरे पुरे प्रजापालनामा राजा, स चैकदा दुर्विनीततुरगाऽपहतो गहने वने भ्रमन्नेकं महन्मठान्तर्निविष्टं भूरिभस्मभराऽभ्यङ्गभासुरं शूथकन्थालिङ्गितगलकन्दलं मृगशृङ्ग१. स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं जायते- इति भर्तृहरिशतके ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380