Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२७०
श्री कथारत्नाकरे
श्री हेमविजयरचिते यतो मां सुरूपां च विनाऽन्यः कोऽपि मद्गृहेऽधुना समेतो नास्तीति महता धननाशव्यसनेन हिमेन दग्धा पद्मिनीव सा भृशं म्लानमुखी बभूव। अथ धनश्रिया भोक्तुमागतस्य स्वभर्तुर्हारव्यतिकरोऽभिदधे, तेनाऽपि सुरूपायाः पत्युः, तदैव सुकृतवती सुरूपापि स्वपतिसमीपतो हारस्वरूपं ज्ञात्वा भृशं खेदं दधौ, एतत्पतिरपि निर्दोषां स्वयोषां मत्वा रहसि सुरत्राणश्रेष्ठिनमभाषिष्ट, हे मित्र! तव हारो मम स्त्रिया गृहीतो नास्ति, त्वच्चेतसि च यदि सत्यमस्ति यन्नूनमनया हारो जगृहे, तदा तत्समानमूल्यो मम हारोऽयमादीयतामित्यभिधाय तेन स्वस्त्रीहारस्तस्मै दत्तः, तेनापि च स गृहीतः, सर्वोऽप्यसौ व्यतिकरो रहसि सम्पन्नः।
अथ क्रमेण तस्मिंस्तैले विक्रीते, तैलमलाऽपकर्षणे [कृते] हारे च निर्गते सुरत्राणश्रेष्ठी भृशं शुशोच। अहो! पापिना दुर्मतिना मया सा साध्वी मुधा कलङ्किता, हारं चाऽऽददानेन मया श्वपचकुलोचितं व्यधायि, यतः[सदाचारप्रवृत्तानां, स्युः समीहितसिद्धयः । असम्पदः सम्पदः स्युः, पुंसां सत्यप्रभावतः ॥३॥]
सदा सदाचारयोरनयोरभ्याख्यानदोषो मया विनिर्ममे। अथ च प्रत्यहं पुण्यपुण्ययोरनयोः पादपाथोजप्रणमनपुरस्सरं तद्धारं प्रत्यर्पयामीति मत्वा सुरत्राणस्तथैव विदधे। पुण्यवती सुरूपापि हारप्राप्तितो निजदूषणनिराकरणं चिन्तामणिमिव बहुगुणं मन्यमाना पतियुता तपस्यामादाय विहितदुस्तपतपा दिवं ययौ। ॥ इति धर्मतो जयाऽधिगमे सुरूपाश्रेष्ठिनीकथा। ॥ २३७॥
॥ २३८॥ ललाटलिखितादधिकं जीवो नाप्नोतीत्यर्थे पितापुत्रपत्नीकथा ॥ भाललिखितं हि केनाऽप्यन्यथा कर्तुं न शक्यते, यतः
आरोहतु गिरिशिखरं, समुद्रमुल्लङ्ग्य यातु पातालम् ।
विधिलिखिताऽक्षरमालं, फलति कपालं न भूपालः ॥ १॥ प्राप्रोति तुष्टदेवोऽपि, न दैवादधिकं पुमान् । श्रूयतां हि कथात्रार्थे, पितुर्मातुः सुतस्य च ॥ २॥
तथाहि--एकस्मिन् विजने वने पित! माता सुतश्चेति विप्रत्रयं प्रकामं दुर्गतं वसति, भृशं भगवद्भक्तिकुर्वाणास्ते त्रयोऽपि वासरान् गमयन्ति।
अन्यदैकं पुरुषोत्तमनामानं द्विजन्मानं पुरो गच्छन्तं ते त्रयोऽपि प्रोचिरे, हे पुरुषरत्न! त्वं क्व यासि? भगवतोऽभ्यर्णं यामीति तेनोक्ते पुनरपि तेऽभिदधिरे, हे द्विज! वयं भगवद्भक्तिं कुर्वाणा: स्य, परं त्रयाणामप्यस्माकमेकमेव धौतिकमस्ति, तेन च वयं तादृशी परमेश्वरपर्युपास्तिं कर्तुमशक्ताः, तेनाऽस्मद्वचनं श्रीभगवतो वाच्यं, यथा स भगवानस्माकमपरं धौतिकद्वयं दत्ते । अथ तत्राऽऽगतेन विप्रेण विज्ञप्तो भगवानाह- हे पुरुषोत्तम! तेषामेकमप्यम्बरमहं लास्यामि, यतस्तद्भालेऽधिकं लिखितं नास्तीति भगवदुक्तं तेन तेषां कथितं, तदाकर्ण्य ते त्रयोऽपि खेदमापन्नाः । अथाऽन्यदा पुनरपि तेषां विज्ञप्तिस्तेन भगवतः पुरो विहिता, भगवानूचिवान् हे पुरुषोत्तम! तेषामेकमेवाऽम्बरं घटते, यतस्तेषां तदेवोचितं, यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380