________________
२५१
तरङ्ग ९/ कथा २२०/२२१ वक्त्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते । वाहिन्यः पार्श्वमेताः कथमपि भवतो नैव मुञ्चन्त्यजस्रम् । बाहुः काकुस्थवीर्यः स्मृतिकरणपटुर्दक्षिणस्ते समुद्रः ।
स्वच्छन्तानसेऽस्मिन् कथमवनिपते! तेऽम्बुपानाभिलाषः ? ॥ २ ॥ सुधारश्मिनाऽम्भोनिधिरिवानेन काव्येन प्रकामोल्लासिना राज्ञाऽस्मै पाण्ड्यनृपेण ढौकितोऽसौ सर्वोऽपि दण्डो दत्तः । तद्यथा
अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ता फलानां तुलाः । पञ्चाशन्मदगन्धलुब्धमधुपक्रोधोधुराः सिन्धुराः । अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं ।
दण्डे पाण्ड्यनृपेण ढौकितमिदं वेतालिकस्याऽर्पितम् ॥ ३॥ सकलमिमं विभवमादाय व्रजन् वेताल: परिजनेनाऽभाणि, हे स्वामिन् ! हे विशारदवृन्दशार्दूल ! भूयानयं विभवोऽस्यै वेश्यायै कथं दीयते? यतो वेश्याः सर्वथा निन्द्याः यतः
क: कोपः कः प्रणयो, नटविटहतमस्तकासु वेश्यासु ।
रजकशिलातलसदृशं, यासां जघनं च वदनं च ॥ ४॥ अपि प्रदत्तसर्वस्वान्, कामुकान् क्षीणसंपदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः ॥५॥
[योगशास्त्रे २/९] एतदाकर्ण्य वेतालः प्राह स्ववचनसीमानं पालयद्भिः सत्पुरुषैः किं किं न दत्तं किं किं च न कृतं ? यतः
वचनच्छलिओ बलिराय, वचन कौरव कुल खोयोवचन करण दिओ कवच, वचन पांडव वन सेव्यो । वचन-लगिं हरिचंद नीच घरि नीर समप्पउ वचनलगि श्रीराम लंका जु बिभीषण घेप्पउ ॥ तिणि मुखि अवाज वेताल कहि, कर गहि जीह ज कहिउं
जलि जाकु लच्छि विक्रमतणी, बुहिडन वचन पल दिहिउ ॥६॥ इति मत्वा स्ववचनरक्षाविचक्षणो वेतालः सकलोऽप्यसौ दण्डः वेश्यायै वितीर्णवान् । ॥ इति वचनपालने वेतालभट्टकथा ॥ २२०॥
॥ २२१॥ कुगुरुसार्थे न गन्तव्यमित्यर्थेऽकुशलद्विजकथा ॥ निरक्षरो हि गुरुरनर्थहेतुरेव, यतः
माठो धोरी-ठोठ गुरू, कुइ ते खारूं नीर ।
ग्रामि कुठाकुर घरि कुघरि[णि ] पंचइ दहइ शरीर ॥ १॥ अपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org