Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 298
________________ तरङ्ग ९/ कथा २२२/२२३ २५३ अहो! धूर्तेषा इति जानन् कुण्डल: पुनस्तामाह, हे प्रिये! अङ्गष्ठमुद्रिकामानयेति, अंगुठी लाव इति लोकभाषया। पुनरपि परिवारेण तथैव पृष्टा साऽभाषिष्ट, एकस्मिन् पार्श्वे सुप्तस्य ममाङ्ग ज्वलति, तेन मदङ्गमुद्वर्त्तय, अंगु ठोलोइ इति लोकभाषया। पुनः स स्माऽऽह 'निधानमानय,' 'धान्यं याचते- 'इति तया कथिते पुनः सोऽवोचत्, लहरीकं सुवर्णाऽऽभरणविशेष-मानय, लहरी-मूर्छा ममायातीति तयोक्ते, सुवर्णमानयेति, तेनोक्ते पुनः सा स्माह-मयि गते सर्वं शून्यमित्येते वदन्तीति तयाऽन्यस्मिन्नन्यस्मिन्नुत्तरं दत्ते श्रेष्ठी दध्यौ-अहो! इयं धूर्ता स्वार्थसाधकतया बहु मृषा भाषते। यतःवणिक्पण्याङ्गनादस्यु-द्यूतकृत्पारदारिकाः । स्वार्थसाधकनिद्रालू, सप्ताऽसत्यस्य मन्दिरम् ॥१॥ धिग्मां यत्प्रागेवाऽहं स्त्रीसात्सर्वं धनमकार्षम्। तेन यद्यस्मान्मान्द्यादधुना मम मोक्षो भावी, तदाहमात्महितं विधास्ये, इति ध्यायतस्तस्य पुण्यभावनया रात्र्यां सर्वे रोगाः क्षयं गताः । अथ शनैः शनैः सज्जीभूतः स स्वस्त्रियमाह, हे प्रिये! अस्मिन्मान्द्ये ममाऽऽत्मा भृशं व्याकुलीभूतः, तेन च मया किं जातं? किं जल्पितं? किं च भुक्तं ? इति किमपि न ज्ञातं, तयाऽपि पूर्वसम्बन्धी सर्वोऽपि वृत्तान्तः कथितः। अथ स धीमान् व्यापारकपटेन तां विप्रतार्य सर्वं धनमादाय च दवीयसि देशे गत्वा धनं पुण्यक्षेत्रे उप्त्वा सुगुरोः पार्श्वे तपस्यामाददे। गीतार्थः सन् विहरन् स्वनगरे समागत्याऽऽत्मपरिजनादिपौरवर्गस्य पुरो धर्मं कथयन् स स्वमान्द्यादारभ्य दीक्षाऽवसानं च निजं सर्वं चरित्रं जगौ। तदा चाऽवस्थान्तरं गतांस्तान् गुरूननुपलक्ष्यमाणा सा कनकेति दध्यौ, अहो अमी गुरवो ज्ञानबलेन मम गूढमपि चरित्रं विदन्ति, तेन देशाऽन्तरगतस्य मम पत्युः स्वरूपं पृच्छामीति स्वपतिस्वरूपमप्राक्षीत् ।। गुरवोऽभिदधिरे हे भद्रे! तव पतिं वयं विद्मो, यतस्तव पत्या सहाऽस्माकं भेदो नास्ति। स वास्तीति तयोक्ते निकटेऽस्तीति गुरूक्तं निशम्य पूर्वाऽभिज्ञानेन लक्षणैश्च गुरूनुपलक्ष्य पृष्टे सति गुरुभिरपि यथाजातव्यतिकरे कथिते सति सा प्रतिबुद्धा प्राव्राजीत्। ॥ इति प्रागेव पुण्यं कार्यमित्यर्थे कुण्डलश्रेष्ठिकथा ॥ २२२॥ ॥२२३॥ स्वभावे शोभन श्रेष्ठि-काममञ्जरीवेश्याकथा । न शिक्षितोऽपि प्रकृति, नीचो मुञ्चति जातुचित् ।राजसेव्यपि मार्जारो, दीपं हित्वाऽऽखुमग्रहीत् ॥१॥ तथाहि-क्षितिप्रतिष्ठिते पुरे जितशत्रुनानो राज्ञोऽतिमान्यो मतिमान् रूपसौभाग्यभाग्यसम्पत्तिशोभनः शोभन: कुमारो नगर श्रेष्ठी, काममञ्जरीनामगणिका च चामरधारिणी। एकदा पर्षदि तस्थुषि नगर श्रेष्ठिनि सा गणिका स्माऽऽह, सुशिक्षिताः प्राणिनो निजां प्रकृतिं हित्वा समीचीनवृत्तयः स्युः, एतदघटमानमनुवारमाकर्ण्य जातेयॆः श्रेष्ठ्यभाषत, यतः१. लहरीयउ - [स्त्रीओना कंठनु] एक आभूषण - मध्यकालीन गुजराती कोश । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380