Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha
View full book text
________________
२५२
श्री कथारत्नाकरे
श्री हेमविजयरचिते हितार्थिभिर्मुद्रितमानसानां, पृष्ठे न गन्तव्यमनक्षराणाम् ।
दिवं व्रजन्तो न्यपतन् द्विजास्ते, यन्मोदकोन्मापकविप्रपृष्टे ॥ २॥ तथाहि-सुरसरित्समीपवर्तिनि नन्दीसरग्रामे लोकव्यवहाराऽकुशलः कुशलाभिधः पाठको द्विजः, अन्यदा तेन स्वयमुप्तयवक्षेत्रे स्वर्गादुत्तीर्य यवाश्चरन्ती सुरगवी निशि ददृशे । अथैकस्मिन्नहनि दिवं व्रजन्त्यास्तस्याः पुच्छं पाणिभ्यां दृढमवलम्ब्य स दिवं गतः । तत्र च वासव मुख्यान् देवान्, पौलोमीप्रमुखा अप्सरसः, पारिजातप्रभृतीन् कल्पभूरुहान्, नन्दनमुद्यानं, नन्दीसरसरः, उच्चैःश्रवसं हयं, ऐरावणं दन्तिनं, सुधर्मा सभां, सुधाभोज्यं, भूरीणि मणिस्वर्णमण्डितानि च विमानानीति सर्वां यथाशास्त्रं स्वर्लोकसमृद्धिं समीक्ष्य स विस्मयमाप । ___अहो! धन्याऽसौ गौ र्ययाऽहं जीवन् दिवमानीतः, इत्यात्मानं धन्यं मन्यमानमेनं द्विजन्मानमागतमालोक्य सर्वोऽपि स्वर्लोकलोकः कौतुकेन वस्त्रालङ्कारसत्कारेण बहुमन्यते स्म। अथ मनुष्यलोकमागन्तुमनसोऽस्य देवलोकागमनाऽभिज्ञानार्थं पौलोम्या पीयूषमोदका दत्ताः। तदानीं तान् मोदकानास्वाद्य देवलोकदिदृक्षुस्तन्मोदकस्वादलुब्धश्च तत्परिवारस्तत्र गमनोपायमप्राक्षीत्। आदावहं गोपुच्छं पाणिभ्यां गाढं गृह्णामि, ततो मत्पादावन्यः, तत्पादौ चाऽपरः, एवं सुखेन स्वर्लोकं यास्याम इति मूर्खमुख्यस्याऽस्य धिया दिवं गच्छद्भिस्तत्परिजनैः कियन्मिता मोदका [इति] स पृष्टः, निरक्षरशेखरेण तेनापि सुरगवीपुच्छं हित्वा स्वौ बाहू च वितत्य मोदकप्रमाणे दर्शिते ते सर्वेऽप्युपर्युपरि पतिता मृताश्च। ॥ इति कुगुरुसार्थे न गन्तव्यमित्यर्थेऽकुशल-द्विजकथा ॥ २२१॥
॥ २२२॥ प्रागेव पुण्यं कार्यमित्यर्थे कुण्डलश्रेष्ठिकथा ॥ शरीरादिसमाधौ पुंसा स्वहितं कार्य, यतःयावच्छरीरपटुता, यावज्जरा न चेन्द्रियग्लानिः । तावन्नरेण तूर्णं, स्वहितं प्रत्युद्यमः कार्यः ॥१॥ प्रान्ते तु स्वहितं कर्तुमशक्यमेव, यतः
युवैव कुर्वीत नरो हितं स्वं, प्रान्ते तु तत्कर्तुमशक्यमेव ।
यत्कुण्डलः काञ्चनशृङ्खलादि-याञ्चापरोऽवञ्चि महेलयाऽन्ते ॥ २॥ तथाहि-चित्रावासनगरे धनद इव श्रीमान् कुण्डल: श्रेष्ठी, कनका च तत्प्रिया । तं चाऽऽकस्मिकरोगवशादृशं मन्दमवलोक्य प्रान्तावस्थोचितपुण्यक्षेत्रधनव्ययविधापनार्थं तत्परिजनस्तमाह। मान्धात्कामं क्षामस्वरो मनसा सावधानश्च कुण्डलः काञ्चनीयां शृङ्खलामानयेति प्रियां प्राह । श्रेष्ठी किं वक्तीति परिजनेन पृष्टा सा दम्भवती ब्रूते स्म, अधुना भवत्सु स्थितेषु मम सङ्कीर्णता न रोचते। सांकडु इति लोकभाषया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380