________________
तरङ्ग ९/ कथा २१७
॥ २१७॥ दैवविलसिते सर्पगजाऽऽखेटकशृगालकथा ॥
Jain Education International
सर्वत्र दैवमेव बलवत्तरं, यतः
धिक् पौरुषं कुलमपि प्रगुणान् गुणांश्च, दैवं बलीय इति मुञ्च सखे ! विषादम् । पञ्चाननो गिरिगुहागहनप्रवासी, वासालये वसति भूमिभुजां बिडाल: लोका अप्येतदेव दैवचरित्रं प्रतिपादयन्ति । यतः -
॥ १ ॥
तृणति वज्र वज्रति तृण कोटिंब बूड उगाह तरइ । असपति मारिससि सटवइ सिरिओ नहनके छत्र धरइ ॥ रीते भरइ भरे ग्रहि ढोरइ, जो चाहइ तो बुहडि भरइ । अलहदहो अलहकी करणी उहु करंति उहु कयान करइ ॥ २॥ दैवं हि मनश्चिन्तितमन्यथा क्षणेन करोति, यतः -
अचिन्त्यमाहात्म्यमयं समेभ्यो, दैवं बलीयो बलवत्तरेभ्यः । सर्पद्विपाऽऽखेटकजम्बुकानां, यन्मृत्युरेषां युगपद् बभूव ॥ ३॥ तथाहि - एतेषां कथानकं चैतेभ्यः काव्येभ्योऽवसेयम् ।
स्थित्वा रन्ध्रमुखे सुखेन निखिलान् शीतान् सुगन्धीन् मृदून्, वायून् पानपथे विधाय विधिना तुष्टिं विधास्ये भृशम् । इत्थं स्वार्थमनोरथप्रथितधीः सर्वंसहासुन्दरीवेणीदण्ड इवाऽसितः स्वदरतः काकोदरो निर्ययौ ॥ ४॥ उत्क्षिप्तैः करिणीकरैः सुखकरै रेवाजलैः शीतलैः, स्नात्वा तत्तटयोः करेणुभिरहं क्रीडां करिष्ये चिरम् । ध्यात्वैवं मदगन्धलुब्धमधुपैर्भ्राम्यद्भिरुद्भ्राजितो, भ्राता विन्ध्यगिरेरिवोन्नतवपुर्विन्ध्यात्करी निर्ययौ || 411 हत्वा मत्तमतङ्गजं कमपि तत्कुम्भस्थलाऽऽस्फालनादादत्तैर्वरमौक्तिकैर्निजकुलं नेष्यामि तोषं क्षणात् । एवं लोभभराऽभिभूतहृदयः पाणौ दधानो धनुर्व्याधस्तामटवीमटन् करटिनं दृष्ट्वैव हृष्टः स्फुटम् ॥ ६॥ निष्प्राणं करिणं तथैव हरिणं क्रोडं तथा कासरम्, लब्ध्वा तत्पिशितैर्जलाञ्जलिमहं दास्ये क्षुधामात्मनः । इत्याशावशवंशविद्धहृदयः सर्वत्र दृष्टिक्रियां, कुर्वाणो गिरिगर्भगह्वरगृहाद् गोमायुरागाद्वनम् ॥ ७ ॥ दष्टस्तेन भुजङ्गमेन मृगयुस्तेनापि स भ्रस्यता । सर्पोऽमारि ससंभ्रमं तदिषुणा तेनापि हस्ती हतः । स व्यापादि गजेन तेन पतता फेरुस्तदेवं ययु-श्चत्वारोऽपि निकेतनं पितृपतेश्चित्रं विधेश्चेष्टितम् ॥८॥ इति दैवविलसिते सर्पगजाऽऽखेटक शृगालकथा ॥ २९७॥
२४७
For Private & Personal Use Only
www.jainelibrary.org