________________
२४८
श्री कथारत्नाकरे
श्री हेमविजयरचिते ॥ २१८॥ मतिविषये पुनानामचाण्डालपुत्रकथा ॥ समीहितमर्थं कामधेनुरिव तात्कालिकी धीरेव सूते, यत:
जातेन चाण्डालकुलोद्भवेन, दत्तं ह्रिया यद्यवनस्य वित्तम् । पश्चाल्ललौ तत्तनयः स्वबुद्ध्या, तात्कालिकी धी: सुखकृन्नराणाम् ॥ १॥
तथाहि-गुर्जरधरित्रीतो मण्डपाचलं गच्छता केनापि तुरुष्केण चाम्पानेरदुर्गमार्गान्तरालमण्डपाचलान्तरालपल्लीवासी पुनाऽभिधश्चाण्डालो वेष्ट्या गृहीतः, भारोद्वाहकत्वेन भृशं तुष्टेन तेन यवनेन मार्गे स चाण्डाल: सुखी कृतः, मण्डपाचलं प्राप्तेन तेन च किंचिद्वित्तं दत्त्वा मुक्तः ।
तेन वित्तेन शाकव्यापारं कुर्वन् वसति स्म। तेन व्यापारेण धनमुपार्जयन् धान्यहटें च मण्डयन् भाग्योदयेन प्रकाममाढ्यो जातः । कस्त्वमिति पृच्छतां लोकानां पुरो वणिजोऽहमिति ब्रुवन् वणिग्वेषधारी स पुनः साधुरिति ख्यातिं लेभे। एवं स जातिहीनोऽपि लक्ष्मीमानासीत्। प्रायो हि श्रीर्जातिरहितानां वेश्मनि वर्धते। यतः
जाइ-कलियं न इच्छसि, कमलग्गं चयसि अक्कमारूढा ।
विवरीय-सरूव-लच्छि, भमरि तं वंदणिज्जासि ॥ २ ॥
साधुपुनः साधुपुन इति पौरैर्भण्यमानः स कस्याऽपि वणिजो दुहितरमुद्वहति स्म । जातश्च तस्य पुत्रपुत्रीसम्बन्धिप्रमुखो भूयान् परिवारः । एकदा स एव यवनस्तं हट्टस्थितमुपलक्षयति स्म। याचितं च तेन यवनेन धान्य-घृत-तैलादि, तेन पुनेनाऽपि ह्रिया तस्मै विशेषतः सुन्दरं प्रभूतं च धान्यादि वितीर्णम् । एवं प्रतिदिनं यच्छतोऽस्य मासचतुष्टयं जातम्।
एकदा पुत्रेणोक्तं हे तात! यदयं यवनोऽहर्निशं धान्यघृतादि गृह्णाति, परं किमपि धनं नाऽर्पयति तत्किम् ? इति पृष्टः स यथाजातं स्वव्यतिकरं पुत्राने जगौ। बुद्धिमता तेनापि प्रभाते पुनरपि धान्यादिग्रहणार्थमागतः स यवनोऽभिदधे, हे स्वामिन्नस्माकं मासचतुष्टयेन गृहीतस्य धान्यादेव्यं देहि, नो चेत्तवाज्ञास्ति शाहेरित्युक्तः सोऽवोचत्, किं न जानीथ? सर्वं लोकानां पुरो वक्ष्ये । स स्माऽऽह यत्तव कथनीयं तत्कथय, यदि त्वया सह व्यापारो व्यधायि तदा वयं नैकशः श्वपचाः किन्तु शतशः, परमस्माकं द्रव्यं देहीति धिया नियन्त्रितः स यवनः सर्वं धनं दत्त्वा स्वस्थानं ययौ। ॥ इति मतिविषये पुनाह्वचाण्डालपुत्रकथा ॥ २१८॥
॥२१९॥ मतिविषये भित्रकथा ॥ मायारहितो हि सखा सर्वत्र सुखकृद्भवति, यतः
मित्रं शाठ्यरतं कलत्रमसतीं पुत्रं कुलध्वंसिनं, मूर्ख मन्त्रिणमुत्सुकं नरपतिं वैद्यं प्रमादास्पदम् । देवं रागयुतं गुरुं विषयिणं धर्मं दयावर्जितं, यो नैव त्यजति प्रमादवशतः स त्यज्यते श्रेयसा ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org