________________
२४९
तरङ्ग ९/ कथा २१८/२१९ सन्मित्रं हि दुर्लभं, यतः
येन तेन सुकृतेन कर्मणा, भूतले हि सुलभा विभूतयः ।
दुर्लभानि सुकृतानि तानि यै-र्लभ्यते पुरुषरत्नमुत्तमम् ॥ २ ॥ मित्रधिया विषममपि कार्य साधयन्ति नराः, यतःयस्य मित्रं धियां धाम, स किं कार्यं न साधयेत् । प्रियामुष्ट्रद्वयोपेतां, सुहृबुद्ध्याऽऽनयद्वणिक् ॥ ३॥
तथाहि-श्रावणनगरवासिनो धनदत्तस्य विनयवती रूपसौभाग्यशालिनी धनश्रीभार्या । धाटीमादाय गतेन भरमाह्वेन पल्लीपतिना गृहीता कृता च स्वभार्या । तद्वियोगात्सर्वमपि सांसारिकं सुखं तृणमिव मन्यमानेन धनदत्तेन गृहस्थवासोऽपि नरकावास इव विदाञ्चक्रे।
चंदो चंदन पवन जल, च्यारइ जउ वि मिलंति ।
तउ पियमाणसबाहिरा, निश्चय ताप करंति ॥ ४॥ बहुभिरुपायैस्तस्याः शुद्धिं विधाय तामादातुमेकं व्यवहारिणं सहायं कृत्वा चलितः स तत्परीक्षार्थमेकं स्थूलमेकं च कृशं दन्तधावनं तदने मुमोच। तेनापि स्थूले तस्मिन्नादत्ते नाऽसौ लोभी मत्कृत्यकर्तेति तं हित्वाऽन्यं कमप्येकं नरं सहचरं कृत्वा स पुनरचलत्, तस्याऽप्यग्रे धनदत्तो द्वयं लघु द्वयं च महदिति क्रमुकस्य दलचतुष्टयं मुमोच। तेनापि लोभवशान्महति दलद्वये गृहीतेऽसावपि न मदर्थकृद् यतः-- आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥ ५॥
[योगशास्त्रे ४/१८] इति एनमपि संत्यज्याऽपरं नरं परीक्ष्य सहायं सहादाय स तां पल्ली प्राप्तः। कापालिकवेषेण तत्र भ्रमन् नापितप्रिययाऽऽत्मानमागतं तस्यै ज्ञापयामास ।
अथ स कृष्णचतुर्दशीमहानिशायां दत्तसङ्केतां तामादाय यियासुरेकघटिकया योजनगामिनी टाकनाम्नीमुष्ट्री मूल्येन आदत्ते स्म। सङ्केतितवटस्याऽधस्तादागतां तां गृहीत्वा करभीमारुह्य मित्रयुतः स चचाल। अथ स पल्लीशस्तां गतां ज्ञात्वा घटिकया द्वियोजनयायिनं सञ्चाभिधानं करभमारुह्य तत्पदानुसारतस्तत्पृष्ठतो निर्ययौ। तमायान्तं निरीक्ष्य सा पतिं प्राह, हे नाथायमुष्ट्रोऽस्या उष्ट्या द्विगुणगामी, तेनायं भिल्ल आत्मनां सत्वरमेव मिलिष्यतीत्यभिहितः स मित्रमाह, हे मित्र! किमथ कर्तव्यम् ? अथ तमासन्नमागतं दृष्ट्वा त्रयोऽपि करभीत उत्तीर्णाः । मतिमान् स सवयाः पादयोः पट्टकं निबध्य, पाषाणादिना च रुधिरं निष्कास्य मृतोऽहं मृतोऽहं चेति जल्पन्नुपविष्टायाः करभ्याः पार्श्वे तस्थौ।
तौ दम्पती तु समीपवर्तिनि बाढं सान्द्रे बदरीजालके तिरोबभूवतुः । उष्ट्रीपार्श्वमागतेन तेन पल्लीशेन रे वराक! तौ वराको क्व गताविति पृष्टः स तदाश्रितं जालकं विहायाऽपरं जालकं १. PD। परीक्ष्य योग्यं च विज्ञाय सहादाय - मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org