________________
२४६ श्री कथारत्नाकरे
श्री हेमविजयरचिते ततस्तैः पृष्टः स्वसचिवोऽपि तत्स्वरूपमाह, हे स्वामिनः ! एतत्पुत्तलकतुल्यास्त्रयः पुरुषाः यस्यैकस्मिन् कर्णे प्रविश्याऽपरतः कर्णाद्दवरको निर्गतः स गुरूक्तं शृण्वन् शुभं मन्यते, परं तत्किमपि न करोति। यस्य चैकस्मिन्नपि कर्णे दवरको न प्रविष्टः स तु गुरूक्तं शृणोत्यपि न। यस्य च कर्णे प्रविश्योदरे दवरकः प्रविष्टः स गुरूक्तं श्रुत्वा तत्सर्वं सम्यक् करोति। अयमेषां पुत्तलानां विभागः, तेनाऽस्य मन्त्रिणो बुद्ध्याऽऽत्मनामस्य जयो दुष्प्रापः, इत्याकर्ण्य ते पञ्चाऽपि पार्थिवाः स्वस्वस्थानं यान्ति स्म। नरसेनोऽपि तन्मन्त्रिधिया स्वराज्यं चिरं पाति स्म। ॥ इति मतिविषये वृद्धमन्त्रिकथा ॥ २१५॥
॥ २१६॥ नियमपालने क्षेमलाऽऽह्वभिल्लकथा ॥ स्वल्पोऽपि नियमः सम्यक् पालितोऽनर्थं निहन्ति, यतः
धणमिव चिंतइ धम्म, जीविअमिव जो वयाइं रक्खेइ ।
सुरतरुमिव सुगुरुपयं, आराहइ तं वरइ सिद्धी ॥ १॥ अपि च
अल्पीयानपि नियमः, सुखाय सम्यक्प्रपालितो भवति ।
वृषसहितशकटभक्षण-रूपः क्षेमाभिधस्येव ॥ २ ॥ तथाहि-गहनेऽरण्ये भीषणाभिधायां पल्लयां भीमो नाम पल्लीपतिः, तत्र च यमकिङ्करा इव क्रूराः, शर्वरीचरा इव कामं कठोरा बहवश्चौरा वसन्ति स्म। अन्यदा भृशं रौद्रां तामटवीं भ्रमताममीषामेको महात्मा मुनिर्मिलितः, तेन च तेषामनुग्रहार्थं धर्मोऽभिहितः, मांसाऽशनरात्रिभोजन-सुरापान-परस्त्रीगमन-द्यूतक्रीडा परिहारादिनानानियमास्तैश्चौरैराददिरे। तन्मध्यादेक: क्षेमलाभिधो भिल्लो हास्यवचनैर्मुनिमूचे, बलिवर्दसूतसहितं शकटमहं न भोक्ष्ये, इति ममापि नियमोऽस्तु । तत् श्रुत्वा ज्ञानिना तेन मुनिना सम्यक् पालनीयोऽयं नियमः इत्यभिधाय तस्मै सोऽपि नियमो ग्राहीतः । अथाऽन्येद्युः कमपि ग्रामं लुण्टयित्वा प्रभूतं सुवर्ण-मणि-रजतादिधनमादाय व्रजन्तस्ते तस्करा भास्करोदये घूका इव क्वापि वनप्रदेशे निलीय तस्थिवांसः । इतस्ततो भ्रमद्भिः क्षुधात॑स्तैर्दुर्गादेवीकुले लपनश्रिया निर्मितं वृषभसारथियुक्तं केनापि ढौकितं शकटं दृष्टं । भुक्ता च सा लपनश्रीः स्वनियमभङ्गभीरुणैकेन क्षेमलेन विना सर्वैरपि तैस्तस्करैः । ततः क्षणेन तान् सर्वानपि मृतानवलोक्य तन्निकटवर्तिनि गोलकग्रामे तच्छुद्धिं गवेषयन् स ययौ। तत्र च केनापि द्विजेन पुत्रोपयाचितनिमित्तं सकलपुरजनभोजनार्थं निशि निर्मितां मध्ये निपतितसर्पविषमिश्रां तां लपनश्रियं ज्ञात्वा द्विजपरिवारयुतः सर्वोऽपि पौरवर्गः प्राणप्रदाननिदानं तं क्षेमलं मत्वा वस्त्रालङ्कारदानेन विशेषतो बहुमानपात्रं विधत्ते स्म । सोऽपि स्वनियमाऽनुभावेन लोकानामात्मनश्च जीवितलाभं ज्ञात्वा विशेषतो मांसाशन-सुरापानादिषु बहुषु नियमेषु दृढोऽजनिष्ट ॥ इति नियमपालने क्षेमलाऽऽहभिल्लकथा ॥ २१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org