________________
२४५
तरङ्ग ९/ कथा २१५ प्रवर्धमानः पुरुष-स्त्रयाणामुपघातकः । पूर्वोपार्जितमित्रस्य, कलत्रस्य च वेश्मनः ॥ ३॥
अथामी वृद्धा मन्त्रिणो वार्धकफललिप्सवः स्वस्वतीर्थेषु गत्वा विशेषतस्तीर्थसेवां चक्रिरे अथ च तं महासेननृपं मृतमाकर्ण्य तत्प्रतिपक्षाः सिन्धुदेशवासिनो जितशत्रुप्रमुखाः पञ्च पञ्चानना इव बलोत्कटाः पार्थिवाः सुधीधीसखरहितं तद्राज्यमादित्सवस्तद्देशसीमानं रुरुधुः। तदा च तेषामेको वृद्धो मन्त्री प्रोवाच, हे स्वामिनो! यद्यस्य राज्ये कोऽपि प्रवया मन्त्री स्थितो भविष्यति तदाऽऽत्मनां स्वराज्यादिसम्पत्तिसुखं जीवितं च कुशाग्रगतजलबिन्दुरिव क्षणनश्वरताभाग्भावीति निशम्य सम्यक् परीक्षां कृत्वैवाऽत्र देशे प्रवेशनीयमिति श्रुत्वा तैरनुमतः स मन्त्री तदर्थं सुरूपं सदलङ्कारभासुरं पुत्तलकत्रयं दत्त्वा स्वमेकं वाग्मिनं दूतं प्राहिणोत्।
तत्रागत्य स दूतोऽपि ब्रूते स्म, हे राजन् ! सिन्धुदेशवासिभिर्जितशत्रुमुख्यैस्तव देशसीमानमागतैः पञ्चभिर्भूपैः प्रहितानाममीषां त्रयाणां पुत्तलानां मूल्यं विधीयताम्। इमं वृत्तान्तमजानन्तो निखिला अपि लघीयांसोऽन्ये मन्त्रिणोऽह्नि तारा इव तदा तिरोदधिरे। राज्ञाऽपि तेषां त्रयाणामपि पुत्तलानां रूपं निभालितं, परं वस्त्राऽलङ्कारजनितः कोऽपि विशेषो न ददृशे, तदा च दिवाकरकरश्लिष्टराजेव राजा म्लानिमापन्नः, किं बहुना? तस्मिन्नवसरे सर्वा सभापि हिमदग्धपद्मिनीव मम्लौ। एतत्स्वरूपं सम्यगवगम्य धारिणीनामराजजननी खिन्ना गृहागतं राजानमाह, हे पुत्र! यद्येकोऽपि कोऽपि मन्त्री इह स्थितो भविष्यति तदा सर्वं सुन्दरमेवेत्यभिहितेन तेन राज्ञा भूमिगृहे स्थितः सुबुद्धिनामैको मन्त्री बाढाऽऽग्रहेण पृष्टात् तत्पुत्रादवगतः, पृष्टश्चाऽब्रवीत्। हे नाथ ! प्रातः सर्वं समीचीनमेव भावीत्यभिहितो राजा स्वस्थानं ययौ।
तेन मन्त्रिणा निशि पार्श्वे स्थितानां वस्त्राऽलङ्कारादिना समानत्वेन तेषां पुत्तलानां तुल्यमेव मूल्यं जानताऽऽन्तरस्वरूपजिज्ञासया गाढदृढदवरकप्रान्त एकस्य पुत्तलस्य नयना-ऽऽनननासिकादिच्छिद्रेषु निहितः, तत्राऽप्यप्रविशन् स प्रान्तस्तेन तस्य कर्णरन्ध्रे निक्षिप्तः सन्नेकस्मिन् कर्णे प्रविश्याऽपरतः कर्णानिर्ययौ । लब्धोपायेन मन्त्रिणा तस्याऽङ्गलग्नमणिस्वर्णादिमूल्यं निर्णीतम्। तथैव द्वितीयस्य कर्णेऽपि स प्रान्तो न प्राविशत्, तेन तस्य तु शरीरलनवस्तून्यपि मुधेति मन्त्रिणाऽस्य पुत्तलस्य किमपि मूल्यं नेति निर्णीतम्। तृतीयस्य कर्णरन्ध्रे प्रवेशितोऽपि स प्रान्तस्तस्य कुक्षावुत्ततार, एवं प्रविष्टः स सर्वोऽपि दवरकस्तस्योदरे।
___ एतादृशं तं पुत्तलं निरीक्ष्याऽहोऽसौ पुत्तलो महानमूल्यश्चेति तेन निर्णीतम् । अथ प्रभाते पाणौ निबद्धपत्रिकांस्तांस्त्रीनपि पुत्तलान् दत्त्वा स दूतस्तत्स्वामिपार्श्वे प्रहितः, उक्तं चैतेषां मूल्यं करबद्धपत्रिकाः कथयिष्यन्ति। स दूतोऽथ तान् पुत्तलान् स्वस्वामिनामर्पयामास। १. सरूपरूप AH । २. पुत्रक' PD। एवमग्रेऽपि ॥ ३. राजा = चन्द्रः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org