________________
२४४
श्री कथारत्नाकरे
श्री हेमविजयरचिते
I
एवं पृष्टोऽमुना श्राद्ध-जिनदासेन गेहिना । अथाऽयमभिधत्ते स्म, विमलः केवली मुनिः ॥७१॥ एतावतां मुमुक्षूणां युगपत्सङ्गमः कथम् । भविता ते मरुस्थस्य, सुरावनिरुहामिव ॥ ७२॥ इयत्सु कर्हिचिद्दैवा-न्मिलितेष्वपि साधुषु । शुद्धाऽन्नपानसामग्री, दुर्लभाऽम्बरपुष्पवत् ॥ ७३ ॥ पात्रदानाऽभिलाषोऽयं, भव्यभावेन भूषितः । काञ्चनी मुद्रिका रत्न - खचितेव विभातु ते ॥ ७४ ॥ परं श्रीकच्छदेशस्थ - भावचारित्रिणोः सतोः । विजया - विजयश्रेष्ठि- दम्पत्योः शालिशीलयोः ॥ ७५ ॥ अशनैर्वसनै रम्यै - रलङ्कारैश्च भावि ते । भक्तिं कृतवतो भूरि, पुण्यं पुण्यमते ! तयोः ॥ ७६ ॥ युग्मं ॥ श्रुत्वैवं विस्मयस्मेर-मनाः स श्रावकोत्तमः । मुनेः केवलिनः प्रीत्या, पृष्टवान् संशयमिदम् ॥७७॥ गृहस्थयोरपि स्वामिं-स्तयोः कोऽयं गुणोदयः । शशिनेवाम्बुधिर्येन, पुण्यमुल्लासभाग् भवेत् ॥७८॥ शृण्वतामिभ्यसभ्यानां, पृष्टस्तेनेति कौतुकात् । तद् वृत्तान्तं यथाजात-मवोचत्केवली मुनिः ॥७९॥ श्रुत्वैवं जिनदासोऽपि, कच्छदेशमुपेत्य च । दम्पत्योरनयोश्चक्रे, भक्तिं वाचामगोचराम् ॥८०॥ तमालोक्य प्रकुर्वाणं, तद्भक्तिमतिशायिनीम् । अपृच्छन्नागराः सर्वे, भक्तेरतिशयं तयोः ॥ ८१ ॥ तेनापि केवलिप्रोक्ते कथिते चरिते तयोः । तुष्टिभाक् तत्परिवारः, पीताऽमृत इवाऽभवत् ॥८२॥ पूर्णप्रतिज्ञौ तौ विज्ञौ, दम्पती साधुसन्निधौ । दीक्षामादाय मुक्ति श्री - भोगभाजौ बभूवतुः ॥ ८३ ॥ श्रीकमलविजयकोविद - शिशुना विबुधेन हेमविजयेन । विहिता कथेयमनघा, शीलगुण श्रेणिमणिजलधिः ॥ ८४ इति शीलविषये विजय-विजयाकथा ॥ २१४॥
,
॥ २१५ ॥ मतिविषये वृद्धमन्त्रिकथा || विषमेष्वपि कार्येषु पुरस्सरा हि बुद्धिरेव, यतः -
चरैः पश्यन्ति राजानः, पशवो घ्राणदर्शिनः । पश्यन्ति पण्डिता बुद्ध्या, चक्षुर्भ्यामितरे जनाः ॥ १॥ किंचाऽऽपन्निस्तारिणी धीरेव, यतः -
Jain Education International
||
न गूढमप्याशयमङ्गभाजां विदन्ति कं कं वदतां वरेण्याः ।
मूल्यं त्रयाणामपि पुत्रकाणां मन्त्री जरीयानपि यच्चकार ॥ २॥ तथाहि—मन्दाकिनीकल्लोलव्यालोललीलोद्यानसुन्दरे सुन्दरे पुरे महासेननामा राजा, तस्मिंश्च सहसैव विसूचिकया मृते तत्पुत्रो नरसेनः पैतृकं पदं प्राप्य लघुवया रूपयौवनराज्यश्रीमदोन्मत्तो निजान् वृद्धान् कुलक्रमाऽऽयातान् बहून् मन्त्रिणोऽवज्ञास्पदं विधत्ते स्म ।
अहो! किंममी बालका इव लालाः पिबन्ति, बधिरा इव न शृण्वन्ति, गताक्षा इव न पश्यन्ति, मूका इव पृष्टा अपि न जल्पन्ति, किं बहुना ? ग्रहिला इवाऽमी विकलाः सन्ति, तेन किममीभिर्गलस्तनीगलस्तनैरिव कार्यहीनैः, पर्युषितपुष्पैरिव सौरभरहितैरिति तेन ते तिरस्कृताः ।
For Private & Personal Use Only
www.jainelibrary.org