________________
२४३
तरङ्ग ९/ कथा २१४ श्रुत्वेति सा भृशं मम्लौ, हिमप्लुष्टेव पद्मिनी। तन्म्लानिकारणं तेन, पृष्टाभाषिष्ट साथ तम् ॥ ४६॥ अस्ति मेऽपि कृष्णपक्ष-विषयो नियमः परम् । तत्खेदादस्मि म्लानाह-मिन्दुलेखेव वासरात् ॥४७॥ तदाकर्ण्य भृशं वीक्षा-पन्नं वीक्ष्याथ वल्लभम् । ब्रूते स्म विजया स्वीय-शीलरक्षाविचक्षणा ॥ ४८ ।।
नाथ भुभव सुखं भोगान्, परिणीयाऽपरां प्रियाम् ।
__ पुंसां प्रियाः प्रभूताः स्युः, शीतांशोरिव दक्षजाः ॥ ४९ ।। वचनं ब्रह्मरचनं, तस्याः श्रुत्वैवमब्रवीत्। विजयोऽनङ्गसंसर्ग-सुधाधामविधुन्तुदः ॥ ५० ॥ प्रिये! प्रागपि दीक्षाया-मभवन्मे मनोरथः । प्रसह्याऽहं परं माता-पितृभ्यां परिणायितः ॥५१॥ किन्तु संसारकारासु, दारासु विगतस्पृहः । सुखं विषयजं मन्ये, मूलं संसारवीरुधः ॥५२॥ भवस्य बीजं नरक-द्वारमार्गस्य दीपिका। शुचां कन्दः कलेर्मूलं, दुःखानां खनिरङ्गना ॥ ५३॥
[योगशास्त्रे २/८७] खलस्नेह इव क्लेश-कारणं दुर्गतिप्रदः। तदयं विषयग्रामः, प्रिये! मम न रोचते ॥ ५४॥ विषस्य विषयाणां स्या-दिहैव महदन्तरम्। उपभुक्तं विषं हन्ति, विषयाः स्मरणादपि ॥ ५५ ॥ यत:
कुरङ्ग-मातङ्ग-पतङ्ग-भृङ्गा, मीना हताः पञ्चभिरेव पञ्च ।
एक: प्रमादी स कथं न दुःखी, यः सेवते पञ्चभिरेव पञ्च ॥ ५६ ॥ आपातरम्यैर्भोक्तुश्च, भोजनैरिव सर्वथा। तेन मे सकलक्लेश-विषयैर्विषयैरलम् ॥ ५७॥ मनोवाक्कायसल्लीलं, शीलमाजन्म सुन्दरि ! गाङ्गेयस्येव गाङ्गेय-पावनं मेऽस्तु नित्यशः ॥५८॥ ज्ञापनीयं हि केषांचि-त्पित्रादीनां न कर्हिचित् । स्वरूपमिदमावाभ्यां, रहस्यमिव हृद्गतम् ॥५९॥
कोऽपि ज्ञास्यति वृत्तान्त-मिमं चेन्नौ विचिन्तितम् ।
आदास्यावस्तदाऽवश्यं, तपस्यां मुक्तिदूतिकाम् ॥ ६०॥ इत्थं निश्चयमाधाय, दम्पती तौ समाहितौ। पालयामासतुः शीलं, जीवितव्यमिवाऽनिशम् ॥ ६१॥ एकत्र शयने रात्रौ, दम्पत्योः सुप्तयोस्तयोः । नाऽभवन्मदनोन्मादी, मदश्चित्रितयोरिव ॥ ६२॥ तयोरेवं परिवारा-ऽपरिज्ञातस्वरूपयोः । सुरूपयोः प्रयान्ति स्म, वासरा ब्रह्मचारिणोः ॥ ६३ ॥ अपि वेश्मस्थयोर्ब्रह्म-वतोः सद्वयसोस्तयोः । प्रशंसनीयमभवत्, शीलं स्वर्गसदामपि ॥ ६४॥
यत:सम्पत्तौ नियमः शक्तौ, सहनं यौवने व्रतम्। दारिद्र्ये दानमत्यल्प-मपि लाभाय भूयसे ॥६५॥ दम्पत्योरनयोरेवं, भावचारित्रपात्रयोः। समयो व्यतिचक्राम, लीलाललितशीलयोः ॥६६॥ अस्मिन्नवसरे चम्पा-नगर्यां समवासरत्। उद्याने केवली साधु-विमलो विमलाशयः ॥६७॥ देशनान्ते तमप्राक्षी-जिनदासो गृही सुधीः । भालं तिलकयंस्तस्य, पादपाथोजपांसुभिः ॥ ६८॥ भगवंश्चतुरशीति-सहस्राणामहं मुदा। कारयामि श्रमणानां, पारणं पुण्यकारणम् ॥ ६९॥ मनोमनोरथश्चारु-रेष हल्लेखिनो मम। फलेग्रहिः कदा भावी, जलैः सिक्त इव द्रुमः ॥ ७० ॥ १. चेद्वां - PD ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org