Book Title: Katharatnakar
Author(s): Hemhans Gani, Munisundarsuri
Publisher: Omkar Sahityanidhi Banaskantha

View full book text
Previous | Next

Page 291
________________ २४६ श्री कथारत्नाकरे श्री हेमविजयरचिते ततस्तैः पृष्टः स्वसचिवोऽपि तत्स्वरूपमाह, हे स्वामिनः ! एतत्पुत्तलकतुल्यास्त्रयः पुरुषाः यस्यैकस्मिन् कर्णे प्रविश्याऽपरतः कर्णाद्दवरको निर्गतः स गुरूक्तं शृण्वन् शुभं मन्यते, परं तत्किमपि न करोति। यस्य चैकस्मिन्नपि कर्णे दवरको न प्रविष्टः स तु गुरूक्तं शृणोत्यपि न। यस्य च कर्णे प्रविश्योदरे दवरकः प्रविष्टः स गुरूक्तं श्रुत्वा तत्सर्वं सम्यक् करोति। अयमेषां पुत्तलानां विभागः, तेनाऽस्य मन्त्रिणो बुद्ध्याऽऽत्मनामस्य जयो दुष्प्रापः, इत्याकर्ण्य ते पञ्चाऽपि पार्थिवाः स्वस्वस्थानं यान्ति स्म। नरसेनोऽपि तन्मन्त्रिधिया स्वराज्यं चिरं पाति स्म। ॥ इति मतिविषये वृद्धमन्त्रिकथा ॥ २१५॥ ॥ २१६॥ नियमपालने क्षेमलाऽऽह्वभिल्लकथा ॥ स्वल्पोऽपि नियमः सम्यक् पालितोऽनर्थं निहन्ति, यतः धणमिव चिंतइ धम्म, जीविअमिव जो वयाइं रक्खेइ । सुरतरुमिव सुगुरुपयं, आराहइ तं वरइ सिद्धी ॥ १॥ अपि च अल्पीयानपि नियमः, सुखाय सम्यक्प्रपालितो भवति । वृषसहितशकटभक्षण-रूपः क्षेमाभिधस्येव ॥ २ ॥ तथाहि-गहनेऽरण्ये भीषणाभिधायां पल्लयां भीमो नाम पल्लीपतिः, तत्र च यमकिङ्करा इव क्रूराः, शर्वरीचरा इव कामं कठोरा बहवश्चौरा वसन्ति स्म। अन्यदा भृशं रौद्रां तामटवीं भ्रमताममीषामेको महात्मा मुनिर्मिलितः, तेन च तेषामनुग्रहार्थं धर्मोऽभिहितः, मांसाऽशनरात्रिभोजन-सुरापान-परस्त्रीगमन-द्यूतक्रीडा परिहारादिनानानियमास्तैश्चौरैराददिरे। तन्मध्यादेक: क्षेमलाभिधो भिल्लो हास्यवचनैर्मुनिमूचे, बलिवर्दसूतसहितं शकटमहं न भोक्ष्ये, इति ममापि नियमोऽस्तु । तत् श्रुत्वा ज्ञानिना तेन मुनिना सम्यक् पालनीयोऽयं नियमः इत्यभिधाय तस्मै सोऽपि नियमो ग्राहीतः । अथाऽन्येद्युः कमपि ग्रामं लुण्टयित्वा प्रभूतं सुवर्ण-मणि-रजतादिधनमादाय व्रजन्तस्ते तस्करा भास्करोदये घूका इव क्वापि वनप्रदेशे निलीय तस्थिवांसः । इतस्ततो भ्रमद्भिः क्षुधात॑स्तैर्दुर्गादेवीकुले लपनश्रिया निर्मितं वृषभसारथियुक्तं केनापि ढौकितं शकटं दृष्टं । भुक्ता च सा लपनश्रीः स्वनियमभङ्गभीरुणैकेन क्षेमलेन विना सर्वैरपि तैस्तस्करैः । ततः क्षणेन तान् सर्वानपि मृतानवलोक्य तन्निकटवर्तिनि गोलकग्रामे तच्छुद्धिं गवेषयन् स ययौ। तत्र च केनापि द्विजेन पुत्रोपयाचितनिमित्तं सकलपुरजनभोजनार्थं निशि निर्मितां मध्ये निपतितसर्पविषमिश्रां तां लपनश्रियं ज्ञात्वा द्विजपरिवारयुतः सर्वोऽपि पौरवर्गः प्राणप्रदाननिदानं तं क्षेमलं मत्वा वस्त्रालङ्कारदानेन विशेषतो बहुमानपात्रं विधत्ते स्म । सोऽपि स्वनियमाऽनुभावेन लोकानामात्मनश्च जीवितलाभं ज्ञात्वा विशेषतो मांसाशन-सुरापानादिषु बहुषु नियमेषु दृढोऽजनिष्ट ॥ इति नियमपालने क्षेमलाऽऽहभिल्लकथा ॥ २१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380