SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १७७ तरङ्ग ७/ कथा १५३/१५४ स तामादाय देवकुलपुरः समेतो मित्रमवोचत् । हे मित्र! महादेवं प्रणम्य यावदागच्छामि तावद्भवताऽत्रैव स्थेयमिति मध्ये गत्वा करवालकृत्तस्वशिर:कमलेन महेश्वरस्य पूजां विधाय मृते तस्मिंस्तत्रैव पतिते विलम्बं विलोक्य मध्ये समेत: केशवस्तं तथाविधं विलोक्य दध्यौ, यद्यहमेनामादाय गृहे गच्छामि, तदाऽवश्यमस्यां लुब्धेनाऽनेन मित्रद्रोहिणा पापिना स्वसुहृन्निहत इति मम कलङ्को भवितेति तस्मिन्नपि तथैव पतिते, द्वयोरपि विलम्बन भृशं भीता मध्ये गता सा तयोरिमामवस्थां विलोक्य दध्यौ, यद्यहं श्वशुरस्य पितुर्वा गृहमेकाकिनी यामि, तदा स्वैरिण्याऽनया पतिदेवरौ हताविति कलङ्कः स्यात्तेन ममाप्यनयोरिव युक्तमिति तेनैवाऽसिना स्वं शिरश्छेत्तुमुद्यतां तां प्रत्यक्षीभूतो भूतेशः स्त्रीहत्यापातकं नाऽऽददेऽहमिति वदन् तत्करादसिमपनयति स्म। कलङ्ककलितायाः पतिरहितायाश्च मम जीवितेन किं? तेन यदीमौ जीवयिष्यसि तदा मम प्राणा नान्यथेति तन्निर्णयं ज्ञात्वा, मम प्रक्षालनवारिणाभिषिक्तौ द्वावपीमौ जीविष्यत इति भगवता शम्भुना भणितमाकर्ण्य तयाप्यौत्सुक्येन विपरीततया सन्धितमस्तकौ तथैवाऽभिषिक्तौ तौ जीवितौ। हे दीप! तदर्थं मिथः कलहायमानयोस्तयोः कस्येयं गृहीणीति योगिना पृष्टे तां जल्पयितुमुत्सुकेन दीपान्तःस्थेन वैतालेन पतिमुखस्य पत्नीत्यसमञ्जसं भणितमाकर्ण्य जातकोपाऽऽटोपा विस्मृतस्वनिर्णया सा- रे पापदीप ! मा मृषा ब्रूहीति बाढस्वरेणाऽभणत् । राजकन्यैकशो जल्पितेति निःस्वाने प्रहारमदापयत् । हे योगीन्द्र ! कस्येयं पत्नीति दीपेन प्रतिपादिते मित्रमुखस्येति योगिनाऽभिहिते कथमिति दीप: पुनरप्राक्षीत् । विवाहावसरे हि दक्षिणः करो दीयते, स तु कबन्धगत एव स्यादिति योगिना भणिते एकशोऽनेनाऽहं जल्पिता त्रयो वाराश्चावशिष्यन्ते, तेन विशेषतो मौनवती सा तस्थौ । इत्येका कथा ॥ १५३ ॥ ॥१५४ ॥ कौशल्ये द्वितीया कथा ॥ अथ पुनरपि दीपवत्कन्याकुण्डलमाभाष्य योगी कथां कथयति स्म । तथाहि- धनरथे नगरे बलदत्तश्रेष्ठिनो द्विधा रूपवती सुता, सा च पितृमातृभ्रातृमातुलैः पृथक्पृथक्वरेभ्यो दत्ता। अथ विवाहार्थमागतांश्चतुरोऽपि मिथो विवदमानान् विलोक्य मदर्थमहो महान् कलह इति सा जीवन्त्येव वह्नौ प्रविश्य भस्मसादासीत् । तदा तेषामेकस्तया सममग्नौ प्रविष्टः, द्वितीयस्तु स्मशाने भूमिगृहं कृत्वा तस्थौ । तृतीयस्तु भिक्षाचरो भूत्वा भिक्षया लब्धस्यांऽशं चितोपरि विमुच्य शेषं स्वयमत्ति स्म । चतुर्थस्तु तदस्थीन्यादाय गङ्गां गच्छन् पथि प्राप्ते महानन्दिपुरे भिक्षार्थं प्रविष्टो मानदत्त श्रेष्ठिनो गृहं गतः । तदा च पतिव्रतां कमलश्रीनाम्नीं तदङ्गनां भिक्षादानेऽन्तरायं कुर्वाणं भृशं रुदन्तं स्वं बालं चुल्हीवह्नौ प्रक्षिप्य भिक्षां दातुमुपस्थितां सोऽवोचत् । हे मातर्मदर्थं बालहत्या जाता, तेनेमां भिक्षामहं न लास्यामीति निषिध्य प्रतिनिवृत्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy