________________
१७८
श्री कथारत्नाकरे
श्री हेमविजयरचिते तस्मिन् साऽमृतसेकेन तं बालमुज्जीव्य पुनस्तस्मै भिक्षां दातुमुपस्थिता तेन जगदे- हे मातरेतस्याऽमृतस्यांऽशं वितरेत्यभ्यर्थितया तया दत्तेनाऽमृतेन समं ज्वलितेन तेन सह तत्र गत: स तां जीवयामास ।
अथ हे कुण्डल! तस्यां जीवितायां तदर्थं मिथश्चतुर्णामपि तेषां कलहायमानानां मध्ये कस्येयं पत्नी? इति योगिनाभिहिते तां जल्पयितुमुत्सुकेन कुण्डलान्त:स्थितेन वैतालेन जीवयितुः पत्नीति भृशमसमञ्जसं भणितमाकर्ण्य कामं सञ्जातेा विस्मृतस्वप्रतिज्ञाक्रमा राजपुत्री- रे पापकुण्डल! मा मृषा वदेति बाढस्वरेण जजल्प । द्वितीयवारं राजसुता जल्पितेति स योगी नि:स्वाने प्रहारमदापयत् । हे योगीन्द्र ! कस्येयं पत्नी ? तदन्यैश्च कः सम्बन्ध ? इति कुण्डलेनोक्ते स योगी जगौ, अमृतेन जीवयिता पिता, चितामध्यात्सहोत्थितो भ्राता, चितास्थानरक्षिता दासः, भिक्षालब्धांऽशेन भोजनवसनादिदाता पतिः । वस्त्रालङ्कारभोजनादिदानं हि प्रियतमाऽऽधीनमिति योगिना गदिते द्विवारमहमेतेन समं जल्पिता, वारद्वयं चाऽवशिष्यते, इति सा विशेषतो मौनमाधाय स्थितवती ॥ इति द्वितीया कथा ॥ १५४ ॥
॥१५५॥ कौशल्ये तृतीया कथा ॥ अथ पुनरपि दीपवत्कन्याहारमुद्दिश्य योगी कथां कथयति, तथाहि-नरसारे नगरे नरपालस्य भूपालस्य पुण्यपालनामा सुतः, तत्रैव पुरोहितसूत्रधारस्वर्णकारकुविन्दानां बुद्धिसार-गुणसार-रूपसार-धनसारनामानः सूनवो राजपुत्रस्य सुहृदः । एकदा पितुर्निदेशेन देशत्यागं चिकीर्षुणा पुण्यपालेन चत्वारोऽपि ते सुहृदः पृष्टाः प्रोचिरे- वयं देहच्छायेव त्वां न त्यजामः, इति तैरन्वितः स स्वपुरतो निर्गतो गहनं वनं प्राप्तः । तत्र तेषु चतुर्पु क्रमेण यामिकेषु राजसुतः सुष्वाप । प्रथमे प्रहरे गुणसार: श्रीखण्डखण्डमयीं सर्वाऽवयवशोभितां सुररमणीव रमणीयामेकां पुत्रिकां निर्माय प्रसुप्ते द्वितीये प्रहरे धनसार उदस्थात् । तस्मिन्नपि यथोचितचीवरोत्तरीयादिदुकूलानि तस्याः शरीरे परिधाप्य सुप्ते तृतीयप्रहरे रूपसार उदस्थात् ।
तस्मिन्नपि मणिसुवर्णाद्याऽऽभरणैस्तामलङ्कृत्य सुप्ते चतुर्थे प्रहरे बुद्धिसार उदस्थात् । तेनापि मन्त्राऽऽकृष्टस्य भगवतो भानुमालिनः प्रयोगेण जीवितायां तस्यां प्रातरभूत् । हे हार! तां विलोक्य स्वं स्वं कृत्यं पुण्यपालपुरतो निवेद्य तदर्थं मिथः कलिं कुर्वतां तेषां मध्ये कस्येयं पत्नी? इति योगिना भणिते तां जल्पयितुमुत्सुकेन हारान्तःस्थितेन वैतालेन जीवयितुः पत्नीति काममसमञ्जसं कथितं निशम्य जाताऽसूया भूयो विस्मृतस्वनिर्णया राजाऽङ्गजा- रे पापहार! मा मृषा भाषस्वेति बाढस्वरेणाभणत्। तृतीयवारं राजसुता जल्पितेति योगी नि:स्वाने प्रहारमदापयत् । हे योगीन्द्र! कस्येयं गृहिणी? तस्यास्तैश्च क: सम्बन्ध ? इति हारेणोदिते योगी जगौ जीवयिता पिता, घटयिता माता, भूषणदाता मातुलः, वसनदाता प्रेयान्, यतो नग्नां रमणीं पतिरेव पिधत्ते । इति योगिनाऽभिहिते त्रिवारमहमनेन जल्पिता, वाक्यं चाऽवशिष्यते, इति सा विशेषतो मौनपरा तिष्ठति स्म ॥ इति तृतीया कथा ॥ १५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org