________________
तरङ्ग ७/ कथा १५४ / १५७
॥ १५६ ॥ कौशल्ये चतुर्थी कथा ॥
अथ पुनरपि दीपवत्कन्याकञ्चुकमुद्दिश्य योगी कथां कथयति । तथाहि - हरिचन्द्रपुरे हरिषेणनामा राजा, तेनैकदा शङ्करो नाम विप्रस्तस्करत्वेन गृहीत्वा वध्यमानोऽब्रवीत्, हे नरेन्द्र ! कुमारस्य विप्रस्य मरणेऽपि न स्वर्गगतिरिति श्रुतिः, तेन मम जङ्घातर्गतरत्नपञ्चकं वितीर्य कयाचिद्विप्रपुत्र्या मामुद्वाह्य पश्चान्मारयेति तद्विज्ञतेन रत्नपञ्चकदानपूर्वकमेकस्य द्विजस्य प्रियमतीनामकन्यामुद्वाह्य स हतः । अथ मृते भर्तरि स्वैरिणी सञ्जाता [सा] कस्मादपि पुरुषाज्जातं सुतं स्वनाममुद्राऽन्वितं कृत्वा पुरबहिरौज्झत् । अथ धर्माख्येन कुम्भकारेण स बालः पुत्रत्वेन वर्धितः, अन्यदा सायं मृत्तिकाखानिसमीपे रूपरमणीयोऽयमेकाकी भ्रमन् हरिषेणनृपेण ददृशे । निर्धनिकोऽयं मम पुत्रो भूयादिति लात्वा राज्ञा राज्यै समर्पितः । मृते च राज्ञि स रणसिंहो नाम राजाऽजनि । अन्यदा श्राद्धाऽवसरे गङ्गां गत्वा पितुः पिण्डदातुमुद्यते तस्मिंस्तीर्थप्रभावाच्चत्वारः करा युगपत्पिण्डग्रहणाय गङ्गाजलतो बहिर्निस्सरन्ति स्म ।
एतत्कौतुकं विलोक्य विस्मितेन तेन शपथपूर्वं पृष्टा राज्ञी यथाजातं जगौ । अथ मृत्तिकाखानितो ज्ञातसम्यक्तत्स्वरूपेण राज्ञा मृतपतिका सा कुम्भकारपत्नी पृष्टा यथाजातं निवेद्य नामाऽङ्कितां तां मुद्रां ददौ । मुद्राऽक्षरतोऽवगततद्वार्तामूलेन राज्ञा भणितया तया ब्राह्मण्यापि सत्येऽभिहिते राजा गङ्गां गत्वा मम चत्वारः पितरः, तत्र यः पिण्डं प्राप्नोति स करं धरतु । इत्थमकथयत् । तदा हे कञ्चुक ! तेषां मध्ये कस्य करः पिण्डार्थं प्रगुणोऽभूदिति योगिना भणिते तां जल्पयितुमुत्सुकेन कञ्चकान्तः स्थितेन वैतालेन जारस्य करः पिण्डं प्राप्नोति, तद्वीजजनितत्वात्, इत्थमत्यर्थमघटमानं भणितमाकर्ण्य जातरोषा विस्मृतस्वप्रतिज्ञाक्रमा सा पार्थिवपुत्री - रे पापकञ्चुक ! मा मृषा कथयेति बाढस्वरेणाऽभणत् । चतुर्थवारं राजपुत्री जल्पितेति योगी निःस्वाने प्रहारमदापयत् । हे योगीन्द्र ! कस्य करः पिण्डं लभते ? इति कञ्चुकेनोदिते योगी जगौ क्षेत्राधिप ! शङ्करचौरविप्रस्य करः पिण्डं प्राप्नोति, तस्मिन्नेव मृते सा ब्राह्मणी रण्डाऽजनिष्ट ॥ इति चतुर्थी कथा ॥ १५६ ॥
१७९
॥ १५७ ॥ दानविषये विक्रमादित्यकथा ॥
अथ प्रभाते हे योगिन्नहं तव किङ्करी, भवांश्च मे स्वामीति वदन्त्यां तस्यां ज्ञातोदन्तस्तत्पिता तत्रागत्य तं योगिनं प्रणम्य पुरस्तस्थौ । विक्रमादित्योऽपि स्वं स्वरूपं प्रकटीकृत्य यथास्थितं च निवेद्य तांश्च राजादिपुत्रान् मोचयित्वाऽनूढया तया युतः स्वां पुरीमायौ । अथ राज्ञि भित्त्यन्तरे स्थिते राजसभां चित्रयन्तं चित्रकलागर्वधरमेकं चित्रकरमपरश्चित्रकरः प्राह, हे मित्र ! किं चित्रकलाहङ्कारं करोषि ? किं चित्रकलारञ्जितो राजा तुभ्यमद्याऽऽनीतामवादिनीं कन्यां दास्यति ? इत्याकर्ण्य दानशौण्डो विक्रमार्कस्तामेतस्मै चित्रकारिणे दत्त्वा तं चित्रकरं देशाSधीशं चकार ॥ इति दानविषये विक्रमादित्यकथा ॥ १५७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org