________________
१८०
श्री कथारत्नाकरे
॥ १५८ ॥ पुण्यादेवाऽर्थसिद्धिरित्यर्थे चन्द्रश्रेष्ठिकथा ॥ पुण्योदये हि सकलं फलजनकं, यतः
यावच्चन्द्रबलं ततो ग्रहबलं ताराबलं भूबलं । तावत्सिध्यति वाञ्छिताऽर्थमखिलं तावज्जनः सज्जनः । विद्यागारुडमन्त्रयन्त्रविषयैस्तावत्कृतं पौरुषं 1 यावत्पुण्यमिदं नृणां विजयते पुण्यक्षये क्षीयते ॥ १ ॥
किंबहुना ? पुण्ये सति विरुद्धं कुर्वतां जल्पतां चाऽपि सिद्धिः, यतःयत्तद्वा वदतां पुंसां, सिद्धिर्भवति पुण्यतः I
कडुआ बडुआ सोही - त्यालापे चन्द्र श्रेष्ठिवत् ॥ २ ॥
तथाहि - 'सारपद्रे ग्रामे चन्द्रश्रेष्ठी, तेन चाऽपुत्रिणा सोहीनामा क्षेत्रदेवताऽभ्यर्थिता, हे देवि ! यदि मम पुत्रो भविता तदा तवैकमहिषं सुवर्णतिलकं कुण्डलयुगलं च दास्यामीति । अथ पुत्रे जाते देव्या भाले तिलकं कर्णयोः कुण्डले च विन्यस्यैको मदोन्मत्तो महिषस्तच्चरणे निबद्धः, बलिनैवेद्यपुष्पादिपुरस्सरं पूजयित्वेति स जगौ हे देवि ! तिलकं पुत्रस्य शेषा, कुण्डले च मम पत्न्याः शेषेति भणित्वा तत्सर्वं पश्चादादाय वादितेषु वादित्रेषु देवीपादबद्धः स महिषो भाट्चक्रे । महिषाऽऽकर्षिताया देवीमूर्तेः कर- चरणादि भूयो भग्नम् | अथ श्रेष्ठिनि गृहं गते सा रुष्टैकाकिनी तस्य विरूपं विधातुमशक्ता कडुआबडुआसंज्ञयोः स्वमित्रयोः क्षेत्रपालयोर्बोहिसंज्ञायाः क्षेत्रदेव्याश्च तं व्यतिकरं जगौ ।
श्री हेमविजयरचिते
अथ चतुर्ष्वपि तेषु तत्सुताऽऽदानाय सायं तद्द्वारनिव्रोपरि देवशक्त्या तिरोहितात्मसु स्थितेषु बुभुक्षितोऽस्मीति मातरं सुतः स्माह, हे पुत्र ! गृहकोणस्थितांस्तिलान् भुङ्क्ष्वेतिमात्राऽभिहिते कटुकानिमान् कथमद्मीति लघुना स्वरेण बालः पुनरवोचत् । 'कडुआ बडुआ सोही बोही' इमान् भक्षयेति बाढस्वरेण तन्मात्रा भणिते चत्वारोऽपि दध्युः, अहो तिरोहिताऽऽत्मानो वयमिह स्थिताः कथमनया ज्ञाताः ? आत्मभ्योऽपीयं बलीयसी, तस्यास्तनयोऽवश्यमस्मान् भक्षयिष्यतीति ते सर्वेऽपि ततः काकनाशं नश्यन्ति स्म ॥ इति पुण्यादेवाऽर्थसिद्धिरित्यर्थे चन्द्रश्रेष्ठिकथा ॥ १५८ ॥
॥ १५९ ॥ धूर्त्तचरित्रे धरणद्विजकथा ॥ अवञ्चितोऽपि धूर्तो वञ्चनां तनुते, किं पुनर्वञ्चितः ? यतः - धूर्तेन वञ्चितो धूर्तो, वञ्चनां तनुते क्षणात् । दम्पतीभ्यां द्विजोऽवञ्चि, तेन तावपि वञ्चितौ ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.