________________
१८१
तरङ्ग ७ / कथा १५८ / १६०
तथाहि - लोहागरनगरे गरुडाह्वो द्विजो वसुमती च तत्कलत्रं, द्वावपीमौ दम्पती धूर्तकलाकुशलौ, एकदा भोजनवेलायां निष्पन्नायां रसवत्यामकस्मादेको धूर्तधुरीणो धरणनामा द्विजातिस्तद्गृहे प्राघूर्णोऽभ्येति स्म । तं विलोक्याहो इमां रम्यां रसवतीमसौ पापात्मा भोक्ष्यतीति धूर्ताभ्यां ताभ्यां मुधैव मिथः कलहे विधीयमाने वसुमती रुष्टा पितृगृहं गता । अथ कियद्वेलां विलम्ब्य सर्वामपि तां रसवतीं वंशमयबृहदलिञ्जरस्याऽधस्ताद्विमुच्य कलत्राऽऽकारणमिषेण गरुडोऽपि गृहतो निर्ययौ । अथ गतयोस्तयोरहमेताभ्यां वञ्चितोऽस्मीति ध्यात्वा धरणोऽपि तां रम्यां रसवतीं भुक्त्वा तस्यैवाऽलिञ्जरस्याधस्तस्थौ । अथ वेलाऽतिक्रमं कृत्वा स्वगृहमागतैःहे प्रिय ! पश्य मम कलां ? यदागतोपि प्राघूर्णको राटिमिषेण पितृगृहं गतया मया वञ्चितः, हे प्रिये ! मुधैव तव कला तव पृष्ठमेव निर्गच्छता मयैव स प्राघूर्णको वञ्चितः, इति स्वां स्वां वञ्चनचातुरीं स्तुवतोस्तयोरलिञ्जरस्याऽधस्तात्प्रकटितः स धरणोऽभ्यधात्, भो दम्पत्यौ ! ममापि कलां पश्यत, यन्मयैकाकिनापि भवन्तौ वञ्चितौ । तं तथास्थितमवलोक्य तौ श्याममुखौ जातौ ॥ इति धूर्तचरित्रे कथा ॥ १५९ ॥
॥ १६०॥ परद्रोहविषये कलसीनामकुटुम्बिनीकथा ॥ महत्सु द्रोहकरणेऽनर्थ एव, यतः -
पूज्यद्रोहादवश्यं स्या- दात्मनो जीवितक्षतिः । मनोभूर्भस्मसादासी - द्यदीशं हन्तुमुद्यतः ॥ १ ॥
अपि च
आत्मनः कुशलाऽऽकाङ्क्षी, परद्रोहं न चिन्तयेत् । वृद्धायै विहितो द्रोहो, वधूमूर्म्यपतद्यथा ॥ २ 11
तथाहि - वनपल्लीग्रामे दत्तया कुटुम्बिन्या श्यामलो नाम स्वपुत्रः कलसीनामकन्यां परिणायितः । अथ यदा सा स्नुषायाः शिक्षां दत्ते, तदा सा तस्यां वैरं वहते । एकदा तया दत्तया जरत्या काष्ठान् गोधूमान् याचिता स्नुषा पतिं प्राह, हे नाथ ! भवन्माता जरती जाता काष्ठानि याचते, इत्याकर्ण्य तत्कारणं पृष्टा सा दत्ता दध्यौ । मया स्नुषा शिक्षितैव विरूपं चिन्तयति, तेन सा विषादिप्रयोगेणाऽवश्यं मां मारयिष्यति, तेन स्वयमेवाऽग्रौ प्रवेश: श्रेयानिति काममभ्यर्थितः सुतस्तदर्थं प्रत्यशृणोत् । अथ चिन्तितेऽहनि दारुसहितामम्बां स्मशाने लात्वा चिताऽन्तस्तामुपविश्य विस्मृतमग्निमादातुं पुराऽन्तर्गते पुत्रे किं मुधा मरणेनेति मत्वा दत्ता निकटवटमारुरोह । तदा चाऽऽगतः स वह्निना चितां दग्ध्वा रुदन् गृहं गतः । अथ तस्मिन्नेव ग्रामे निशि स्तेयं विधाय तस्यैव वटस्याऽधो लोप्त्रस्य भागान् कुर्वाणाश्चत्वारश्चौरा इति वदन्ति स्म । यो लोप्त्रस्य भागे लोभं करिष्यति तन्मस्तके खट्खटिति शब्दं कुर्वाणा वटवासिनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org