________________
१८२
श्री कथारत्नाकरे
श्री हेमविजयरचिते देवता पतिष्यतीत्याकर्ण्य दत्ता तथैव राटिपूर्वं तेषामुपरि न्यपतत् । लोप्त्रं हित्वा नष्टेषु तेषु करचरणकण्ठहृदयादिषु तान्याभरणानि परिधाय सुरस्त्रीव रम्यवेषा सा प्रभाते गृहमागता । किमेतदिति ताभ्यां पृष्टा साऽभाषिष्ट, हे पुत्र ! स्वयमनाकारिता चलित्वा यमराजौकसि गताऽहं, तेन मयि विशेषतस्तुष्टेन तेनैतदाभरणादि दत्त्वा मानिता विसृष्टाऽहमिहाऽऽगां, तत् श्रुत्वा हे मातरन्योऽपि यः कोऽपि यमाभ्यर्णं याति तस्य स किं करोतीति स्नुषयोक्ते हे पुत्र ! मत्तोऽपि विशेषतस्तस्मिंस्तुष्टः स बहुमानं दत्ते ।
अथ लोभाऽभिभूता सा तथैव चिताऽन्तः प्रविष्टा, निहिते च वह्नौ प्राप पूज्यस्य द्रोहफलं मरणमिति, अथ कियत्सु वासरेषु व्यतीतेषु श्यामलो मातरमाह हे अम्बाऽद्यापि तव स्नुषा कथं नाऽऽयाता ? हे पुत्र ! हे देवानांप्रिय ! पावके प्रविष्टानां न पुनरागतिः, इत्युक्त्वा स्वं सर्वं व्यतिकरं तस्मै कथयित्वैकां सुवंशजां सुन्दराऽऽकारां कन्यां परिणायितो दत्तया पुत्र: स्वं धर्ममपालयत् ॥ इति परद्रोहविषये कलसीनामकुटुम्बिनीकथा ॥ १६० ॥
॥ १६१ ॥ मधुर भाषणेनात्रापि सम्पत्तिरित्यर्थे मणिमतीकथा ॥ मधुरभाषिणी जिह्वा सुधाखण्डमेव, यतः
सुधाखण्डा हि सा जिह्वा, या जानाति सुभाषितम् । मन्ये राहुभयान्नष्टा प्रविष्टा वदनाऽन्तरम् ॥ १ 11 किञ्च मधुरवचनानामिहैव सम्पत्तिर्यतः -
वाग्भिः सुधादीधितिसोदराभिः शीतोष्णवर्षासमयाः समानाः । कृता ददुः कामघटं जरत्यै, तदत्र वाचां विभवोऽतिरम्यः ॥ २ ॥
तथाहि - मणिसारे नगरे मणिचूलो वणिक्, तस्य मणिमती माता, मणिहरी च गेहिनी । एकदा मणिमत्या सुधाधन्याभिरपि वाग्भिः शिक्षितायाः प्रियाया वचनैः प्रेरितो मणिचूलो मातरं निशि गहने वनेऽमुञ्चत् । तत्र करणसागराऽऽह्वसरसस्तीरे स्वयं निर्मिततृणौकसि तस्थुषी सा तृणेन्धनहारिभिर्दत्ताशना सुखेन वासरान् गमयति स्म । एकदा त्रिदशौकि शीतोष्णवर्षाकालाः स्वस्वोत्कर्षेण विवदमाना मानुषलोकमागता मणिमतीसन्निधौ समेत्य स्वं स्वं गुणमूचिरे । तथाहि
स्त्रिग्धं भोज्यमनर्गलं मृगदृशामालिङ्गनं निर्भरं I कौशेयं वसनं द्युतिर्द्युतिपतेर्वातोज्झितं मन्दिरम् । तैलोद्वर्तनमन्नमुष्णमुषसि प्रोल्लासिका तूलिका I ताम्बूलं च सुखाय शीतसमये लीलामये भोगिनाम् ॥ ३ ॥ १. तुला - धर्मरत्नकरण्डके पत्र ३८५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.