________________
१८३
तरङ्ग ७/ कथा १६०/१६१ वासः स्वच्छतमं वने विचरणं धारागृहेऽवस्थितिः । क्रीडास्मेरसरोजभासि सरसि श्रीखण्डखण्डद्वैः । अम्भः शीततरं लघिष्ठमशनं सौरभ्यरम्याः स्रजो । ज्योत्स्नौघाश्च सुखाय धर्मसमये भोगाङ्गसम्पन्मये ॥ ४ ॥ आहारो लघुरम्बरेष्वरुणिमा रम्येषु धूपव्रजैस्तोयैस्तोयमुचां पतद्भिरनघे वातायनेऽवस्थितिः । कान्तायां हरिताङ्करैर्वनभुवि स्वैरं विहारक्रमः ।
केकाः केकिभिरीरिताः सुमधुरा हर्षाय वर्षास्वलम् ॥ ५ ॥ हे मातरस्माकं स्वस्वगुणोत्कर्षमयं सुरासुरनाथैरप्यभग्नमिमं विवादमद्य त्वमवसानं नय। हे पुत्रा! युष्माकं गुणा एकया जिह्वया वक्तुं न शक्यन्ते, यतः
तूलिकातैलताम्बूल - तरुणीतरणित्विषः । तप्ताऽन्न हुतभुक्तापः शीते सप्त सुखाऽऽवहाः ॥ ६ ॥ यत्पुंस्कोकिलकूजिते मधुरिमा पुष्पेषु यत्सौरभं । यन्माकन्दमहीरुहे फलतती रम्या रतिर्यद्वने । यद्वाल्लभ्यमघर्मरश्मिरुचिषु प्रीतिर्यदम्भोभरे । यत्कामोत्सवकृद् ध्वनिर्मधुलिहां तद्ग्रीष्मविस्फूर्जितम् ॥७ ।। यत्र स्वर्मणिभिः प्रघूर्णितमलं दग्धं च देवद्रुमैः । शीर्णं सिद्धिभिरस्तमाप्तमनधैर्मन्त्रैरमत्यैर्मृतम् । कामं कामघटैर्विनष्टमटितं दूरे द्युसद्धेतुभि
स्त्वं तस्मिन् समये समस्तवसुधाऽऽधारोऽसि धाराधर! ॥ ८ ॥ अपि च
सम्प्रति न कल्पतरवो, न सिद्धयो नापि देवता वरदाः ।
जलद ! त्वयि विश्राम्यति, सृष्टिरियं भुवनकोशस्य ॥ ९ ॥ किञ्च सम्यग्ज्ञानदर्शनचारित्रैर्मुक्तिरिव, स्वर्गमर्त्यपाताललोकैश्च जगदिव, भवद्भिरेव संवत्सरः, तेन त्रयोऽपि भवन्तो मान्याः पूज्याः समानसम्पत्तयश्चेति तया तेषां विवादे निर्णीते ते त्रयोऽपि विशेषतः सन्तुष्टास्तस्यै कामकुम्भमेकं दत्त्वा तिरोदधिरे । अथाऽन्यदा पान्थादिजनमुखादवगतमातृस्वरूपेण पुत्रेण सा महोत्सवपुरस्सरं स्वमगारमानीता पौरैः पृष्टा यथाजातं कथयति स्म। पौरैरथ मञ्जुवादिनीयमिति भणिता सा मञ्जवादिनीति चापरं नाम लेभे। कामघटप्रसादाच्च सा सुखिनी समजनि ॥ इति मधुरभाषणेनाऽत्रापि सम्पत्तिरित्यर्थे मणिमतीकथा ॥१६१ ॥ १. AHPD । मेघवजैः - मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org