________________
१८४
श्री कथारत्नाकरे
श्री हेमविजयरचिते ॥ १६२॥ कटुभाषिणामिहैवाऽऽपदित्यर्थे नागिणीवृद्धाकथा ॥ दुर्जनानामेव जिह्वा विषविनिर्मिता, यतःविसहरखंड खंडहालाहल, विजलिखंड खंड दावानल । एच्चारइ मेलवि समभायह, दुजण जीहघडी विहिरायह ॥१॥ तेषां कटुभाषिणां दुर्जनानामिहैवाऽनर्थः, यतः
शीतोष्णवर्षाकालानां, युगपत्कटुभाषणात् ।
दुःखभाग्जरती जज्ञे, धिगस्तु कटुभाषिताम् ॥ २ ॥ तथाहि- तत्रैव नगरे मणिमत्याः प्रातिवेश्मिकी नागिणीनामजरती नारी तं मणिमतीप्रभावं विलोक्य तत्स्पर्द्धया तत्र तटाकतीरे तस्थुषी, एकदा शीतोष्णवर्षासमया: स्वस्वोत्कर्षेण विवदमाना मानुषं लोकमागतास्तत्रैव नागिणीसमीपे समेत्य स्वस्वगुणानूचिरे, 'स्निग्धभोज्यमि'त्यादिपूर्ववत्। इति तेषां वचनान्याकर्ण्य स्वभावेन शुनीव कटुभाषिणी साऽभाषिष्ट, रे दुर्मुखा ! रे विश्वविडम्बकाः पापपुञ्जमूर्तेः कलिकालस्य च भवतां च न कोऽपि विशेषः तथाहि
निर्दग्धाः कमलाकरा: सुमनसो मम्लुः कलावानपि । प्रीत्यै नो किल क्लृप्तवर्मसु जनः प्रायेण बद्धादरः । जाड्येनोल्लसितं जगत्सु महिते मित्रेऽपि यन्मन्दता ।
तन्नूनं कलिरेष दुःसहतया शीतर्तुना स्पर्धते ॥ ३ ॥ विधत्ते यत्तोषं जडपरिचितेर्गो:पतिकराः। कठोरा जायन्ते कथमपि न तृष्णा विरमति । मुदे दोषारम्भो भुवि भवति वैरस्य घटना। किमेष ग्रीष्मर्तुः किमुत कलिकालः प्रसरति ? ॥ ४॥
सर्वत्रोद्गतकन्दला वसुमती वृद्धिर्जडानां परा । जातं निष्कमलं जगत्सु मलिनैर्लब्धा घनैरुन्नतिः । सर्पन्ति प्रतिमन्दिरं द्विरसनाः सन्त्यक्तमार्गो जनो ।
वर्षाणां च कलेश्च सम्प्रति जयत्येकैव मार्गस्थितिः ॥ ५ ॥ तेन विश्वेषां दुःस्थिताऽदुःस्थितपण्डितापण्डिततरुणातरुणादिजनानां दुःखहेतून् युष्मान् धिगस्तु । इति स्वभावेन कटुभाषिण्या भर्त्सितास्ते त्रयोऽपि रुष्टास्तस्यै विपत्तिघटं दत्त्वा तिरोदधिरे। अथ सापि तस्य घटस्य लाभात्तुष्टा सती वसनाऽशनादिप्राप्तये तं घटमयाचिष्ट। सोऽपि विपत्तिघटस्तां यष्टिमुष्टिमुद्गरलताऽऽदिना बाढं जघान । तेन हता सा मृता नरकं ययौ ॥ इति कटुभाषिणामिहैवाऽऽपदित्यर्थे नागिणीवृद्धाकथा ॥१६२ ॥
॥१६३॥ विनयोपरि भिल्लकथा ॥ आस्तामन्यो गुणगणः एकेन विनयेनैव पुमांसो गुणभाजो भवन्ति, यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org