SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ तरङ्ग ७/ कथा १६२/१६३ १८५ अन्यैर्गुणैरलमलङ्करणाऽनुरूपै-रप्यस्ति चेद्विनयमण्डनमेकमङ्गे आयान्ति नायकमिव ध्वजिनीजना यत्-सर्वे गुणाः स्वयमिदं हृदये वहन्तम् ॥ १ ॥ प्रेमपात्रं प्रजायन्ते विनीताः पशवोऽपि हि । तस्माद्विनय एवायं स्वीकार्यः कार्यकोविदैः ॥ २ ॥ किं बहुना? विनयेन पाषाणमयादपि देवादिप्रतिबिम्बात् साक्षात्स्थितादिवाऽर्थसिद्धिः, यतः विनयं विदधद्विद्यां, द्रोणाचार्यादवाप्तवान् । मृन्मयादपि यद्भिल्लो, विनयस्तदहो! गुणः ॥ ३ ॥ तथाहि- हस्तिनागपुरे धनुर्विद्यामहोदधेः कुम्भोद्भवप्रतिमस्य द्रोणाचार्यस्य समीपे सकलामपि धनुर्विद्यामधीत्य द्रोणाचार्यस्याऽपरा मूर्तिरिव भूत्वा बहुमणिमौक्तिककनककरितुरगादिभिरर्जुनेन भृशं सन्मानितो विद्यागुरुस्तमाह, हे पार्थ ! वरं वृणु । हे भगवन्! यदि तुष्टोऽसि तदा मां विनाऽन्यः कोऽप्येतादृशीं धनुर्विद्यां नाऽध्यापनीय इति, महतां गुरूणां वचनं नाऽन्यथेति द्रोणाचार्योऽपि तदुक्तमङ्गीचकार । एकदा 'पार्थ एव धनुर्धरस्तद्विद्यामूलं च द्रोणाचार्य' इत्याकर्ण्य कर्णाटनिकटगङ्गातटवासी भीमलो नाम भिल्लस्तदर्थमागत्य द्रोणाचार्यमचे । तेनाऽपि स्वप्रतिज्ञायां कथितायां स स्वस्थानं गत्वा मन्मयीं द्रोणाचार्यमूर्तिं विधाय पुष्पचन्दनादिना तामभ्यर्च्य 'हे द्रोणाचार्य ! मम धनुर्विद्याप्रदो भूया' इत्यभिधाय तदने धनुर्विद्याऽभ्यासं व्यधात्। तद्भक्तिभावनिर्भरमना भिल्लः कियता कालेन द्वितीयः पार्थ इवाऽभवत्। ___ एकदा गङ्गायां स्नानं विधाय पुरमागच्छन्तं द्रोणाचार्यमनुगच्छन्नर्जुनः स्वं श्वानमेकमविद्धाऽधरोष्ठतालुरसनादशनैः शरैः पूर्णमुखमालोक्य मां विना न कोऽप्येतादृशीं शक्तिं बिभर्तीति विस्मितः स्वश्वमुखबाणाऽनुसारेण गच्छन् पुरस्तात्तं भीमलं भिल्लं विलोक्य पृष्टवान्-केनाऽमी मार्गणाः शुनो मुखे निहिता:? मयेति तेनोक्ते कस्ते गुरुरिति चाऽर्जुनेनाऽभिहिते द्रोणाचार्यो मम गुरुरिति भिल्लो बभाण । तन्निशम्याऽर्जुनो द्रोणाचार्याय तदुक्तं निवेद्येति प्रोचे, हे स्वामिन् ! यदि युष्मादृशा वचनसीमानमुल्लङ्घयन्ति तदा के वयं वराकाः? कथमिति गुरुणोक्ते पार्थो भिल्लोक्तमुक्तवान् । अथ द्रोणाचार्येण तत्र गत्वा क्वाऽऽस्ते तव गुरुरिति भणितो भिल्ल: स्वनिर्मितां तां मूर्तिमदीदृशत् प्रोचे च स्वव्यतिकरम् । 'हे पार्थ! मद्भक्तिरेवाऽस्य फलिते 'ति निशम्य धूर्तः पार्थस्तमाह- यतः नावी सेतंबर सोनार, धाधक चोर अनइं जूआर । नगरलोक वेसा वाणिआ, ए आठइ धूरत जाणिआ ॥ ४ ॥ 'हे भिल्ल! रभसाऽस्मान्मिलितानामेषां द्रोणाचार्याणां स्वदक्षिणकराङ्गष्ठेन पूजां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy