________________
श्री कथारत्नाकरे
श्री हे मविजयरचिते विधेही ति भणितेन तेन तथैव सद्यो विहिते ‘हा पार्थ ! नगरवासिना धूर्तेन भवता वनेचरोऽसौ सरलाऽऽत्मा वञ्चितः । अथ मत्प्रसादादेतेषामङ्गष्ठेन विनापि बाणमुक्तिर्भूयादिति गुरुस्तं भिल्लं प्रसादपात्रीकृत्य स्वं स्थानमगात् । ततोऽद्यापि भिल्लस्तर्जनीमध्यमाभ्यामेव बाणान्मुञ्चति इति विनयोपरि भिल्लकथा ॥ १६३ ॥
॥ १६४ ॥ स्त्री चरित्रे श्रीविक्रमादित्यस्त्री-तिलक श्रीकथा ॥ स्त्रीचरित्रं सुधियामप्यगम्यं, यतः
नहपारं जलहिजल-जलहरपारं च पुहवीपारं च ।
जाणंति केवि निउणा, न हु हिअयं हरिणनयणाणं ॥१॥ तेन यत्नरक्षितापि महिला स्वाभाविकी स्वैरतां न जहाति । यत:
विक्रमप्रियतमाऽपि यदेक-स्तम्भसौधमुषिता कुलटाऽभूत् ।
स्त्रीजनस्तदवितोऽप्यतियत्नात्, स्वैरतां न विजहात्यतिलोलः ॥ २ ॥
तथाहि-उज्जयिन्यां परकायप्रवेशाऽदिबहुशक्तिशालिनं श्रीविक्रमादित्यं भूपं सभास्थितऽऽमागत्य कोऽपि कोविद इदं पद्यमेकमपाठीत्
अश्वप्लुतं माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यतां च ।
अवर्षणं वाप्यतिवर्षणं च, देवा न जानन्ति कुतो मनुष्याः ? ॥ ३ ॥ ___ इदमाकर्ण्य सकर्णो राजा जगौ, हे विद्वन् ! सर्वेऽप्यन्येऽर्थाः सत्याः परं स्त्रीचरित्रमिदं न सर्वथा श्रद्दधामीति भूपोक्तं निशम्य सोऽवोचत् हे राजन्निदमपि पदं सागरः सीमानमिव समीचीनतां न जहातीति श्रुत्वाऽस्य पदस्य परीक्षां विधाय तुभ्यं दानं दास्यामीति विसृष्टे तस्मिन् राजा निशि निशाचर्यां विलोकयन्नेकस्य सौधस्याऽधस्तात् स्थितयोः कनकधीतिलकश्रीसंज्ञयोर्द्वयोर्बालिकयोर्वार्तामश्रौषीत् ।
तदा तिलकश्रिया कनकश्री: पृष्टा, हे सखि ! परिणीता पतिगृहं गता त्वं किं करिष्यसीति सा स्माह
शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुल्हीक्रिया, --स्थालीक्षालनधान्यपेषणभिदो गोदोहतन्मन्थने । पाकैस्तत्परिवेषणैः समुदितैर्भाण्डादिशौचक्रियां,
भर्तृश्वश्रूननान्दृदेवृविनयैः कष्टं वधूर्जीवति ॥ ४ ॥ किं च पतिचित्ताऽनुगामिन्यहं सर्वं भव्यं विधास्यामि । अथ च कनकश्रियाऽभिहिता सा स्माह- हे सखि ! त्वदुक्तमहं सर्वं सर्वदाऽन्यथा करिष्ये, इति तयोः परस्परमभिहितं वचनं श्रुत्वा पार्थिवः प्रभाते तां तिलकश्रियं परिणीय 'स्त्रीणां चरित्रमिति पदस्य' परीक्षां कर्तुमेकस्तम्भे तां विमुच्य स्वयमेव वैतालिकप्रयोगेणाऽन्नपानादिकां तच्चिन्तां चकार । अथ सा सौधाधस्तादुत्तीर्ण कामनन्दसार्थवाहं विलोक्य स्मराऽतुराऽजनि, सोऽपि तामुदीक्ष्य कामार्तोऽभूत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org