________________
तरङ्ग ७ कथा १६४/१६५
१८७ सुरङ्गया समेतेन तेन समं सा राज्ञि च गते भोगान् बुभुजे । एकदा सभास्थितो राजा 'सब जग भीना एकज कोरी' इति पदं वारंवारं भणन्तं भिक्षार्थं च चत्वरादिषु भ्रमन्तं धन्यानाथनामयोगिनं विलोक्येति, दध्यौ । नूनमसौ स्वां पत्नीमेवैकां सतीं मन्यमान इति भणन् भ्रमति, तेनाऽस्य स्वरूपं पश्यामीति मक्षिकान्तः प्रविश्य सायं स राजा तस्य योगिनः पृष्ठे लग्नः । योगिन्यपि कुसुमताम्बूलपक्कान्नादि लात्वा पुरावहिर्गत्वा सिद्धवटस्याऽधस्तादेकां महती शिलामुत्पाट्य तदध:स्थिते भूमिगृहे प्रविष्टे राजाऽपि मक्षिकारूपेण तत्र प्राविशत् । अथ तस्मिन् योगिनि स्वजटामध्यगतसमुद्गकाऽन्तर्गतभस्मतः प्रकटितया यौवनाधिरूढया स्त्रिया सह रन्त्वा सुप्ते सति सा स्त्री स्वकण्ठस्थितसमुद्ग-कान्तर्गतभस्मतः प्रकटितेनैकेन यूना समं चिरं चिक्रीड।
योगिजागराऽवसरे तया स युवा पुनर्भस्मरूपो निर्ममे । गतनिद्रेण तेनापि सा कन्या भस्मरूपा विहिता । एतच्चरित्रं विलोक्य चकितो राजा प्रभाते कीररूपेण तिलक श्रीकरमलञ्चकार । अथ सा तं शुकं पञ्जरे निधाय शृङ्खलाचालनतः समेतेन कामनन्देन सह सम्भोगाऽऽदिविनोदं व्यधात् । चिरं तच्चेष्टितं दृष्ट्वा सत्यं तत्कोविदकथितं पदमिति मन्यमानो राजकीरस्ततः समुड्डीय स्वस्थानं गत्वा कीरशरीरं हित्वा च राजसभायां राजा तस्थौ । अथ तं योगिनं तथैव पुरे भ्रमन्तं भोजनार्थं निमन्त्र्य तिलकश्रीगृहे गत्वा राजा षडासनानि भोजनार्थं मण्डयित्वा प्रोचे, हे योगिन् ! प्रकटय स्वां पत्नी, न चेदसिना त्वां हनिष्यामीति भूपेनोक्ते योगिना तथैव प्रकटिता साऽपि तथैव भणिता तं युवानमाविश्चकार । कामनन्दमाऽऽकारयेति तथैव राज्ञा प्रेरितया तया शृङ्खलाचालनतः समेतः कामनन्दो राजादींस्तानवलोक्य पश्चाद्वलमानो राज्ञा प्रोचे, हे कामनन्द ! मा याहि, समागच्छ इहेति राज्ञो वचनेन तस्मिन्नागते ते सर्वेऽपि बुभुजिरे। अथ स योगी तां कन्यां तस्मै यूने दत्त्वा स्वयं सत्यो योगी जातः, राजापि कामनन्दाय तिलकश्रियं दत्त्वा तं पण्डितं मणिमौक्तिकस्वर्णकरितुरगादिभिः सत्कृत्य विससर्ज ॥ इति स्त्रीचरित्रे श्रीविक्रमादित्यस्त्री-तिलकश्रीकथा ॥१६४॥
॥१६५॥ भाग्योपरि वस्तुपालमन्त्रिकथा । भाग्यभरे जागरुके पुंसामसम्भाव्यमपि भवति । यतः
भाग्यात्सम्पद्यते पुंसा-मसम्भाव्यमपि क्षणात् ।
वस्तुपालस्याविरासी-च्छिरश्छायाक्षितौ निधिः ॥१॥ तथाहि- धवलके नगरे वीरधवलस्य राज्ञो वस्तुपालनामा महामन्त्री, एकदा शिरश्छायाधरायां निधिराविर्भवतीति तद्वितरणमुखरैार्गणैर्भूयोभूयो भणितं वस्तुपालस्येदं बिरुदं श्रुत्वा दुर्बलकर्णेन राज्ञा मन्त्री भणितः, हे मन्त्रिन् ! घृत-तैल-हिङ्ग-लवणादिव्यवसायपराणां भवतामियं ख्याति!चिता यत् शिरश्छायाक्षितौ निधिः प्रादुर्भवतीति । तेन वार्यतामसौ मार्गणगणः, मन्त्रिणा निषिद्धा अपि मार्गणास्तां ख्यातिं राजसभायां समेतस्य मन्त्रिणः प्रोचिरे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org