________________
१८८
श्री कथारत्नाकरे
श्री हे मविजयरचिते तदा च राज्ञा भणितो मन्त्री, हे मन्त्रिन्! प्रातरेनां परीक्षां विधास्ये, यदा सत्यं तदा तव ख्यातिरस्तु, न चेत्तदा मार्गणानां जिह्वोच्छेदं करिष्ये, भवतश्च सर्वस्वदण्डः, इति कथिते गते च मन्त्रिणि राज्ञा मन्त्रिशिरश्छायास्थाने निश्येका महती शिला निदधे । प्रातश्चाऽऽगते मन्त्रिणि खनितायां तस्यां भुवि शिला निर्गता, तदा राज्ञा मन्त्री प्रोचे, हे सचिव ! तव भाग्यं भूरि, यदिदं दृषत्खण्ड निर्गतं, तदा च सचिवभाग्यनुन्नेन केनापि सभ्येनाऽभाणि, हे राजन्नियं शिला भज्यतां, को वेत्ति यदेतदन्तर्गतं निधानं भवितेति।।
तदा च भाजितायां तस्यां मध्यतो निर्गतमहिमवलोक्य सर्वेऽपि सभासदो नेशुः, अहो मन्त्रिणो भाग्य! यत्पाषाणादपि सर्पो निर्गतः, इति भणता राज्ञा प्रोचे, हे मन्त्रिन्! गृहाणेदं निधानं भवद्भाग्यतो निर्गतं, मन्त्री तु तं सपादकोटिकनकमूल्यं द्वात्रिंशन्मणिमयं हारं पश्यति। मन्त्रिणा च नमस्कारस्मरणपूर्वं तदुपरि हस्ते न्यस्ते तदधिष्ठायकसुरे च नष्टे सर्वेऽपि तं हारं पश्यन्ति स्म। अथ मन्त्री तं हारं कण्ठे निधाय सभायां तस्थिवान्। सत्यं मन्त्रिणो बिरुदमिति भूयो भूयो भणन् भूपतिस्तान् मार्गणान् सत्कृत्य मन्त्रिणं बहुमानपात्रं चक्रे ॥ इति भाग्ये वस्तुपालमन्त्रिकथा ॥ १६५॥
॥१६६॥ वचनकलायां डामरदूतकथा ॥ कुरूपाणामपि वचनकलाकलितानां सर्वत्र सम्पत्तिः यतःकामं कामदुघाधेनु-क्किला कथिता बुधैः । यद्वशाड्डामरो जज्ञे, मान्यो भूमिभुजामपि ॥ १॥
तथाहि- पत्तने श्रीभीमस्य भूपस्य वाग्ग्मी समयज्ञः कुरूपो विप्रो डामरो नाम दूतः, एकदा मालवाऽधिपस्य भोजस्याऽभ्यर्णे तं दूतं प्रेषयितुमना भीमो भूयसी शिक्षा ददौ। ततः स्थानादुत्थानाऽवसरे वस्त्रप्रान्तं धूनयन् स दूतः किमेतदिति भीमेनाऽभाणि, हे देव! भवता दत्ता शिक्षा इहैव तिष्ठतु, किञ्चाहं तु तत्र समयोचितं वक्ष्ये, येन वयं दूताः सर्वत्र वचनकलयैव सुखमनुभवामः, इति श्रुत्वा गूढकोपेन राज्ञा तन्मारणं मनसि विधाय दुकूलवेष्टितं मध्यनिहितभस्मसञ्चयं कनकसमुद्गकं भोजप्राभृताय तस्य करे दत्त्वा प्रेषितः स दूतो धाराधीशश्रीभोजराजसभां प्राप्तः । तदा च श्यामलं दन्तुरं तुन्दिलं चिपटाऽक्षं पिङ्गकेशं स्फुटितनखं कुब्जं भृशं कुरूपं च तं विलोक्य भोजोऽभ्यधात्
यौष्माकाऽधिपसन्धिविग्रहपदे दूताः कियन्तो द्विज! । त्वादृक्षा बहवोऽपि मालवपते! ते सन्ति तत्र त्रिधा। प्रेष्यन्तेऽधममध्यमोत्तमधियः प्रेष्यानुरूपक्रमा
त्तेनाऽन्तःस्मितमुत्तरं विदधता धाराधिपो रञ्जितः ॥२॥ तद्वचनकलया तुष्टेन भोजेन स्वागतप्रश्नालापमालापितः स तं समुद्गकं प्राभृतीचक्रे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org