________________
तरङ्ग ७/ कथा १६५/१६७
१८९ अस्मिन् सुवर्णसमुद्गके किं भावीति समुत्सुकेषु सभ्येषु तन्मुखे चोन्मुद्रिते मध्यतो निर्गतां रक्षां वीक्ष्य वीक्षापन्ने किमिदमिति ध्यायति भोजे दूतो दध्यौ, नूनं पापिना मम स्वामिना मन्मारणोपायोऽयं व्यधायीति चिन्तयन् स केयं रक्षेति राज्ञा जगदे। हे देव! मम स्वामिना तुरङ्गमेधो महान् यागो व्यधायि, तस्येयं रक्षा वर्तमानसर्वाऽऽमयहरी, षण्मासं चाऽस्याः प्रभावेण कोऽपि रोगो नोत्पद्यते, तेनाऽस्या लवोऽपि देव-दानव-मानवानामपि दुर्लभोऽस्ति। तुष्टेन भोजेन सा रक्षा आत्मपरिवारस्य दत्ता, तेनाऽपि स्वमस्तके निदधे । अथ मणिकनकतुरगादिदानेन सत्कृतः स डामरः पत्तने भीमसभासमेतो राज्ञा पृष्टः सर्वं यथाजातं जगौ। एकदा स्मयं सृजन्तं तं भीमोऽभाषिष्ट, रे मूढ! किं स्वकलागर्वं करोषि? मत्प्रसत्तेरेव जीवसि। हे देव! वाचां कलया वयं दूताः सर्वत्र श्रियं लभामहे ।
अथ भूयो भीमेन मुद्रितलेखं दत्त्वा प्रेषितो डामरः स्नातुमुपविष्टस्य भोजस्य पार्श्वे गतः, भोजेनापि स्वागतप्रश्रपूर्वं प्रोचे, हे दूत! तव स्वामी भीमडो नाम पत्तनवासी नापितः किं करोति? हे भोज ! भूरिभूपशिरसां मुण्डनव्यापारप्रह्वत्वेन जलक्लिन्नशिरसस्तव शिरोमुण्डनं कर्तुं स वारकं न लभते । इति चमत्कारिणा वचनेन रञ्जितो भोजो लेखान्तस्तन्मारणं लिखितं ज्ञात्वा किमेतदिति भणन् लेखस्वरूपं तस्याऽग्रे जगाद। धूर्तधुरीणो डामरोऽपि जगौ, हे देव! विधीयतामेतत्कृत्यं, यतो ज्ञातैत्कारणेन भवता नैतत्कृत्यं विधास्यते, तेनाऽत्र कर्मणि क्षणमपि न विलम्बनीयम्। अथ च बाढनिर्बन्धतो भोजेन भणितः सोऽभणत्, हे देव! मम जन्मपत्रिकायां लिखितमस्ति यदस्य पञ्चाशत्तमे वर्षे घातोऽस्ति, यत्र चाऽस्य मरणं तत्र द्वादशाब्दिकं दुर्भिक्षमिति तेन तव वैरिणा मत्स्वामिनाऽहमत्र प्रेषितोऽस्मि, तेन मत्स्वामिलोकोपकारपरस्य मम मरणमिहैवास्तु, इत्युदित्वा यावदसौ दूतोऽसिना स्वशिरः स्वयं छिनत्ति, तावद्भोजेन करे धृत्वा निषिद्धः । हे देव! कथमहं मरणान्निषिद्ध: ? अवश्यं यातारः प्राणा यदि स्वामिकार्ये यान्ति तदाऽवश्यं स्वर्ग इति निषेधं मा विधेहि । तदा च भोजेन सद्य एव सहस्रसुवर्णं पञ्चाशत्तुरगादि भूयो धनं च दत्त्वा स स्वदेशसीमतो बहिरकारि। सोऽपि महाऽऽडम्बरेणाऽऽगत्य प्रणम्य च राज्ञा पृष्टः सर्वं यथाजातं जगौ। तद्दिवसाद्विशेषतो डामरो भीमादिभूरिभूपानां मान्यः ख्यातिमांश्चाऽभूत्। ॥ इति वचनकलायां डामरदूतकथा ॥ १६६॥
॥१६७॥ श्याममस्तकानां विश्वासो न कार्य इत्यर्थे दुर्धर-केसरिकथा । सिंहादिभ्यः सबलसत्त्वेभ्यो मनुजा ओजस्विनः, यतः
ओजस्विनोऽपि पशवः, शक्तिमन्तः सुरा अपि।
नरैनूनं निबध्यन्ते, नरा हि बलवत्तराः ॥ १॥ १. अस्त्यावलिका, यत्र- AHDR ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org