________________
१९०
श्री कथारत्नाकरे
अपि च
सिंहो वार्धकिनाऽक्षेपि, पञ्जरे बलवानपि । विश्वासो नोचितः श्याम- मस्तकानां कदापि तत् ॥ २ ॥ तथाहि— भयङ्करे नाम वने अरिण्याः केसरिण्या दुर्धरनामा केसरी सुतः, स च यौवनं प्राप्तो मात्राऽभाणि, हे पुत्र ! श्याममस्तकानां विश्वासो नोचितः, तव त एव रिपवः, इति श्रुत्वा वनं भ्रमता तेन शृगाल- शम्बर - शशक - सारङ्ग- शार्दूलादयः श्वापदाः श्याममस्तकस्त्वं? श्याममस्तकस्त्वम् ? इति च प्रत्येकं पृष्टास्ते स्वं स्वं शिरो दर्शयित्वा न श्याममस्तका वयमिति च भणित्वा स्वं स्वं स्थानमगुः ।
एकदा तरुच्छेदनपरायणमेकं सूत्रधारं त्वं श्याममस्तक: ? इति स पृच्छति स्म । तस्य त्वं किं करिष्यसीति तेनोक्ते स स्माह, मम मात्रा स एव मे मूर्धनि रिपुरुदितोऽस्ति, तेन तं निहत्य निष्कण्टकः सुखभाग् भवामीति तं गवेषयन्नस्मीति । [ सूत्रधारेणोक्तं यदि ] मदुक्तं करोषि तदाऽहं तं दर्शयामीति तद्वचनं प्रतिपन्ने सिंहे सूत्रधारेण सद्यः कठिनं काष्ठपञ्जरं घटितं कथितं च सिंहस्य अत्र त्वं प्रविश, यथा ते दर्शयामि । बलवत्यपि पशौ तस्मिन् सिंहे तत्र प्रविष्टे तेन भृशं कर्कशां लोहकीलिकां पञ्जरमुखे निधाय श्याममस्तकोऽहमिति पञ्जरच्छिद्रेण स्वं शिरो दर्शयित्वा स स्वस्थानं गतः । अथ सोऽपि सिंहस्तत्र पञ्जरे स्थितो मृत्वा नरकं ययौ। ॥ इति श्याममस्तकानां विश्वासो न कार्य इत्यर्थे दुर्धरकेसरिकथा
॥ १६७ ॥
॥ १६८ ॥ भाग्ये सुरदासकथा ॥
सम्पदो हि पुण्यैरेव स्युः, यतः -
Jain Education International
श्री हेमविजयरचिते
आरोग्यं सौभाग्यं, धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह, भवान्तरे वाञ्छिताऽवाप्तिः ॥ १ ॥
किं बहुना ? विपदोऽपि सम्पदः स्युर्भाग्यभाजां यतःविपद्यपि भवेत्पुंसां, पुण्यतः सर्वमीप्सितम् । खातिकायां द्विजो लेभे, श्रियं श्रीफलभञ्जनात् ॥ २॥
तथाहि - धणासणे पुरे सुरदासनामा द्विजः, तस्य च दुर्मुखा चण्डा कोपनशीला कालिनीनामगेहिनी । एकदा नक्तं भुञ्जानेन तेन निर्लवणां रब्बां ज्ञात्वा गाढतर्जनातो जातकोपप्राग्भारया तया कोपप्राग्भारेण सा रब्बाहण्डिका तन्मस्तके भग्ना । अथ द्वितीयामपि हण्डिकां तस्य शिरसि भञ्जयितुमुद्यतां तां विलोक्य भृशं भीतः स तदैवार्धभुक्त एव नष्टः, पुरजलमार्गेण निर्गत्य च प्रखातिकायां पतितः । तदा च तस्मिन्नेव पुरे चौराश्चौर्यं विधाय तस्यां खातिकायामुपविश्य लोप्त्रस्य भागान् विदधिरे ।
For Private & Personal Use Only
www.jainelibrary.org